SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सगः IX श्रीमुनिसुव्रतस्वामिचरितम् ॥ १३ ॥ प्रेक्ष्य तत्र पयः पीत्वा, श्रममुत्सृज्य मार्गजम् । आरुरोह सरःपाली, द्रुमालिपर्यलङ्कृताम् ।। ३४३ ॥ [त्रिभिर्विशेषकम् ] तत्र चारित्रपूताङ्गं, कायोत्सर्गमुपागतम् । कुबेरदत्तो निर्ग्रन्थ-वरं मुनिमलोकत ॥ ३४४ ॥ निर्माणुषे वनेमुष्मिन् , कथमेष महातपाः? । अथवा नगराराम-विभागोऽमूदृशां न हि ॥ ३४५ ॥ ध्यात्वेति गत्वा निर्ग्रन्थ- पदपद्ममवन्दत । मुनेः सम्वाहयनङ्गी, स पुरस्तादुपाविशत् ॥ ३४६ ॥ इतश्च वारुणीसगाव, पश्चिमाचलशृङ्गतः । अचेतन इवाम्भोधौ, न्यपतत्पमिनीपतिः ॥ ३४७॥ रक्ताम्बरपरिधानं, कुरुते पश्चिमाङ्गना । प्रिये लोकान्तरं याते, रुदती पक्षिणां रुतैः ॥ ३४८॥ केशप्राम्भारवत् कृष्णो-न्धकारःप्रससार च । रुदत्याः पूर्वकामिन्या, गते रुचिपतौ ततः ॥ ३४९ ।। लिप्तं नीलीरसेनेव, भूयसा तमसा जगत् । उदये मलिनानांहि, निर्मलत्वं कुतो भवेत् १॥३५०॥ ततो ध्यानं विमुच्याऽसौ, धर्मलाभाशिषं ददौ । अमुष्य राजपुत्रस्या- शीर्वादो'लिङ्गिनां धनम् ॥ ३५१॥ मुने! तव मुखं रम्यं, न पश्यामि तमस्ततौ । न दीपिका ममाभ्यणे, रत्नं किञ्चन न स्फुटम् ।। ३५२ ।। इत्युक्तेऽथ कुमारेण, मुनिर्भावविवृद्धये । खनिष्ट्यूतेन पाण्यग्र-मलिम्पत महातपाः ॥ ३५३ ।। तेनास्फुटितेनेव, विद्योतोञ्जनि सर्वतः । ददर्शाऽसौ मुखं तस्य, स्मेरकैरविणीसमम् ॥ ३५४ ॥ प्रभो! कथं महारण्ये, स्थितवानसि सोऽवदत् । भाविनं प्रतिबोधं ते, विज्ञायाहमिहागमम् ।। ३५५ ।। १ साधूनाम् । तृतीयो भवः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy