SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो भवः अन्येयुः सीमभूमीश-प्रेषितं वाजिपुङ्गवम् । महावेगपरीक्षाया-यध्याशिष्ट नृपात्मजः॥ ३३०॥ चित्रन्यस्त इवात्यन्तं, स्तम्भितो मात्रिकैरिख । तस्थौ निश्चलसर्वाङ्ग-चर्मयष्टिहतोऽप्यलम् ॥ ३३१ ।। दयां विना यथा धर्मो, यथा चन्द्रं विना निशा। तथा वेगं विना वाजी, राजार्हो जायते न हि ॥ ३३२ ॥ मत्वेदं हृदि यावत्स, उत्तितीपुर्नृपाङ्गजः । तावच्चचाल वेगेना-कृष्टवल्गस्तुरङ्गमः ॥ ३३३ ॥ सरिद्वामगिरीन् वेगा-नभस्वानिव लङ्घयन् । अभ्यगात्काननं किञ्चि-देष भीमं यमास्यवत् ॥ ३३४ ॥ रश्मिर्मुक्ता करकोडात्, खिन्नाङ्गेन कथञ्चन । आदिष्ट इव केनापि, तथा तस्थौ तुरङ्गमः ॥ ३३५ ॥ कुबेरदत्तः खिन्नाङ्गः, उत्ततार तुरङ्गमात् । क्षणात्सौख्यं क्षणाहुःखं जायते भववर्तिनाम् ॥३३६॥ दृशं दूतीमिव प्रेष्य, पुरस्ताद् वनसम्पदम् । वीक्ष्यमाणः कुमारः स, वनमध्यं विवेश च ॥ ३३७ ॥ वनलक्ष्मीः कुमारस्य, मौलौ पुष्पाणि पश्चधा । प्रसरतरुशाखाप्रै-निचिक्षेप करैरिव ॥ ३३८ ॥ अथ काश्चित्तरुच्छायां, प्राप्याऽस्वापीनृपात्मजः । श्रमार्तानां हि जन्तूनां, विना निद्रां कुतः सुखम् ? ॥ ३३९ ॥ निद्राविराममासाद्य, कुमारस्तरुपल्लवान् । नानाविधानिरैक्षिष्ट, बहुस्पृक् छेकदृग्यतः ॥ ३४०॥ ततो भ्राम्यन् सरस्तीरं, नलिनीवनभासुरम् । नभः सिञ्चदिवादित्य-तत कल्लोलपाणिभिः ॥ ३४१ ॥ पुण्डरीकवरच्छाया-राजमानम॒दुस्खरैः । राजहंसैनिरुद्धान्त, राजागारमिवोचकैः ॥ ३४२ ॥ श्रीमु०३ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy