SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि सुव्रतस्वामि चरितम् ॥ १२ ॥ www.kobatirth.org इह पूर्वविदेहेषु, विजयः पुष्कलावती । तत्र विश्वपुरं नाम पुरं भूतिमनोहरम् ।। ३१५ ।। विश्वकान्तो नृपस्तत्र, विश्वारातियशोहरः । विश्वकान्ता प्रियाऽमुष्य, विश्वे ख्यातिमती भृशम् ॥ ३१६॥ तयोर्वैषयिकं सौख्यं, विविधं सेवमानयोः । अगान्निष्पुत्रयोः कालः, कियानपि कलाविदोः ।। ३१७ ॥ विश्वकान्ताऽन्यदा देवी, चिन्ताचान्ता सुतार्थिनी । आगात्कुबेरदत्तस्य, यक्षस्य रुचिराश्रये ॥३१८॥ पूजयित्वा जगादेदं, यदि मे भविता सुतः । तदा ते नाम दास्येऽहं यात्रां कर्तास्मि पुष्कलाम् ||३१९|| उपयाचितमेतत्सा, कृत्वाऽगानिजमन्दिरम् । देवी सरोदये स्वमे, यक्षमैक्षत पूजितम् ॥ ३२० ॥ तं दृष्ट्वा प्रतिबुद्ध्याथ, विश्वकान्तस्य भूभुजः । सा खमं कथयामास, प्रमोदोत्फुल्ललोचना । ३२१ ॥ भूमिनाथोऽवदद् भद्रे !, तत्ते सूनुर्भविष्यति । साऽवभात् शकुनग्रन्थिम्, मङ्गल्यात् को न हृष्यति ॥ ३२२|| शिवकेतुसुरभ्युत्वा तस्याः कुक्षाववातरत् । उत्पेदे स सुतत्वेन, शुभसम्पूर्णदोहदः ॥ ३२३ ॥ भूमिपतिः कुबेरस्य, यक्षस्याच न्यधात्तराम् । यात्राश्च महतीं चक्रे, सिद्धेऽर्थे को विलम्बते ? ॥ ३२४ ॥ नाम खमानुसारेण, कुबेरदत्त इत्यभूत् । वर्धमानः क्रमादेष, यौवनं समुपागमत् ॥ ३२५ ॥ कन्यकानां शतं राजा, पर्यणाययदङ्गजम् । स भोगान् बुभुजे तेन, पुमर्थत्रयबन्धुरः ॥ ३२६ ॥ जैने गृहे ययावेष, पूर्वाभ्यासवशादिव । अन्येनाभण्यमानोऽपि, संस्कारात् पूर्वसम्भवात् ॥ ३२७ ॥ यौवराज्यपदे राज्ञा, विन्यस्तः शुभवासरे । मङ्गलपुरदेशोऽस्मै ददे नन्दनमुक्तये ॥ सुबुद्धेर्नन्दनो बुद्धि - धनो नाम्ना सुमत्रिराट्। मुमुचे देशरक्षायै, स्वयं राजान्तिकस्थितः ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ३२८ ॥ ३२९ ॥ BX BX प्रथमः सर्गः तृतीयो भवः ॥ १२ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy