SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सविस्तरं तत्र, भगवान्पर्षदि स्थितः । उवाच गन्धिलावत्यां, सङ्काशस्त्वमुपासकः ॥ ३०० ।। विज्ञातजिनधर्मोऽपि, देववित्तस्य भक्षणात् । ईदृग्विपाकस्तदभू-चतुर्गतिगतस्य ते ॥ ३०१॥ तन्निशम्यैष संवेग-रसस्नपितमानसः। आरेमे निन्दितुं काम-मात्मनो दुष्कृतं कृतम् ।। ३०२ ॥ हा! मया देववित्तानि, भक्षितानि कुबुद्धिना। तैरहं पातकाजीर्णे, पातितोऽस्मि सविस्तरम् ॥ ३०३ ॥ प्रभो! प्रसादमाधाय, पापाजीर्णच्छिदे वरम् । देहि धर्मोपदेशाख्य-मौक्तिकं किञ्चनोत्कटम् ॥ ३०४ ॥ ततो जगाद भगवान् , यथासम्पत्ति सर्वदा । चैत्येषु योजयख खं, तथेति च जगाद सः॥ ३०५ ।। यदैव जगृहेऽनेना-भिग्रहः कर्मबन्धनैः । तदैवात्रुट्यत क्रूरैः, काशुभं साधुसन्निधौ ॥ ३०६॥ अथ वित्तस्य सम्पत्ति-स्तस्याभूत् क्रमशो बहुः । विशेषेणाहते चैत्येऽयोजयद्धनमात्मनः ।। ३०७ ।। यथा यथा स सङ्काश-जीवो वित्तव्ययं व्यधात् । तथा तथा स्पर्द्धयेव, शश्वल्लक्ष्मीर्यवर्द्धत ॥ ३०८ ।। देवपूजारतो नित्यं, कारयित्वा जिनार्चनाः । स विशोध्य मलं सर्व, क्रमाश्रिदिवमासदत् ॥ ३०९ ।। सङ्काशस्य कथामेनां, श्रुत्वा केवलिनोदिताम् । शिवकेतुसुहृदेव उवाचाऽऽनम्य सन्मुनिम् ।। ३१० ।। निवृत्तो देववित्तेभ्यो, विडालेभ्य इवाखुकः । देवकीयमिदं मुक्तं, परिपाककलं फलम् ॥ ३११ ॥ शिवकेतुसुरोऽस्माकं, मित्रं येन मम ध्रुवम् । त्वत्तो विधापितो बोधो-ऽपरथा दुर्गतौ गतिः ॥ ३१२ ॥ सङ्काशस्य कथावृत्तम् , स्मरन्तौ तत्वरङ्गितौ । अथ तौ मुनिमानम्य, जग्मतुस्त्रिदशालयम् ॥ ३१३ ।। कुर्वन्नन्दीश्वरे यात्रां, जिनभक्तितरङ्गितः । पञ्चपल्योपमान्येष, निजायुः पर्यपूरयत् ॥ ३१४ ॥ इति द्वितीयो भवः। द्वितीयो भवः सकाशकथा नकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy