________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामिचरितम्
प्रथमः सर्गः
॥११॥
नरजन्मनि सञ्जातो, मूकत्वं श्रवणच्छिदाम् । कारागारप्रवेशं च, लभते स्म भवे भवे ॥ २८६ ॥ आभियोगिकदेवत्वे, स्वल्पर्द्धिः परदास्यभृत् । ताडितः पविनेन्द्रेण, परदारापहारतः ॥ २८७ ।। एवं चतुर्गतिगतो, दुःखान्यनुभवन्नसौ । नगर्यां तगराख्यायामि-भ्यपुत्रतयाजनि ।। २८८॥ तत्कर्मांशस्य दोषेण, निर्वित्तोऽजनि तत्पिता । पित्रोर्लक्ष्मीरलक्ष्मी स्यात्, प्रायोऽपत्यप्रभावतः॥२८९॥ शैशवेऽस्य मृता माता, विच्छिन्ना ज्ञातयोऽखिलाः । एकाकी समभूत्पापी, निर्भाग्याणां शिरोमणिः ॥२९॥ चकार नीचकर्माणि, परोच्छिष्टं जघास च । सुष्वाप शून्यगेहेषु, ममार्जेम्याङ्गणानि च ॥ २९१ ॥ अमुष्य भवति स्नानम् , घनवृष्ट्या गिरेरिख । अमुष्य जातमात्रस्या-भ्यङ्गोऽभूजन्मवासरे ॥ २९२ ।। रथ्यापतितवासांसि, नित्यं परिदधेसको । अवनात् केशपाशेषु, न पुष्पं नेत्रयोः परम् ।। २९३ ॥ ततःस दध्यौ खिन्नात्मा, यन्नात्मम्भरिरप्यहम् । धन्यास्ते पुण्यभाजस्ते, ये कुक्षिम्भरयो नृणाम् ॥२९४॥ (यदूचे-)बन्धनस्थोऽपि मातङ्गः, सहस्रभरणक्षमः। काकः स्वच्छन्दचारोऽपि, स्वोदरेणापि दुःखितः ॥२९५।। तस्यैवं निन्द्यमानस्या - भूवन् रोगपरम्पराः। दुर्घलायां वृतौ छिद्रम्, कर्तुं को नाम न क्षमः ॥२९॥ अन्येयुः केवलज्ञानी, कोऽपि तत्रागमन्मुनिः। तं वन्दितुमगुः पौराः, कासेवेतन रोहणम् ।।२९७॥ सोऽपि दारिश्यमुद्रावान्, सज्ज्ञानमिव मूर्तिमत् । नत्वा मुनिमुवाचाथ, प्रभो! मे पातकं वद ॥२९८॥ इभ्यपुत्रोऽपि निःस्वोऽहं कर्मणा येन कारितः । तदहं प्रष्टुमिच्छामि, यूयं सर्वविशारदाः ।। २९९ ।।
'फुलु' इति भाषायाम्। २ वाडमा ' इति भाषायाम् ।
XXXXXXXXXXX-0)
द्वितीयो भवः सहाशकथामकम्
For Private and Personal Use Only