SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir o तमालोक्योल्लसदृष्ट्या, देवी ध्यातवती हृदि । असको कम्बलश्चारु, यो दत्तो गुरवे पुरा ॥ ११९ ॥ कथमेषोऽसृजाकीर्णो, लाक्षारक्त इवाजनि । दृश्यन्ते न च ते वन्द्या, मुनयो नयचक्षुषाः ॥ १२० ॥ वन्दितुं गत्वरीं साधून, यद्राजा मां निषेधति । तदस्य पालकस्योचै-श्चिन्त्यते दुष्टवेष्टितम् ॥१२॥ द्विजः स्वभावतो मिथ्या-ऽऽग्रहग्रहिलमानसः । मत्पतिस्त्वपरं कर्ण-दुर्बलो नवकुम्भवत् ॥ १२२ ॥ ध्यात्वेति राजमहिषी, जगाद क्षितिनायकम् । क मे बन्धुमुनिः सूरि-गुरुभूरि क्षमावताम् ॥१२३॥ अथाऽधः कृतवान्वक्त्रं, दण्डकी पापपातकी । दुर्गतेदुर्गसवार, पश्यन्निव पुरःस्थितम् ॥ १२४ ॥ ततो रुदोद सुदती, तुदती करताडनैः । वक्षःस्थलं स्थलमिव, त्रोट्यन्ती कचोच्चयम् ॥ १२५ ॥ हा! भ्रातश्चारुचारित्र-पवित्र! कुलभूषण!। अतर्कितां दशां यातः, कथं कमललोचन ॥ १२६ ॥ इहाऽगच्छन्निषिद्धोऽसि, स्वामिना किन्तु सोदर।। अथवा भाविनं ह्यर्थ, निषेधुंक्षमते हिकः॥१२७॥ अद्यापि प्राणिति भ्रातः!, सोदरी ते कृशोदर! । आकर्ष्यापि मृतेः कष्ट, हन्त ! स्त्री वज्रनिर्मिता ॥१२८॥ किमनेन सुराज्येन, प्राज्येणापि कलङ्किना । निष्कलङ्क जिनेन्द्रस्य, शरणं मे पदाम्बुजम् ॥ १२९ ॥ शासनस्वामिनी श्रीमत् -सुव्रतस्याऽस्ति देवता । इतो मां विभुपादान्ते, मोचयेत्सपरिच्छदाम् ॥१३०॥ इत्यूर्ववाहुर्दोर्वल्ली, दधाना जितशत्रुसूः । सुव्रतस्वामिनं देवं, सस्मार सरशासनम् ॥ १३१ ॥ इतश्च शासनाधीशा, रामापञ्चशतीवृताम् । एनामुत्पाटयामास, सुव्रतखामिनं प्रति ।। १३२ ।। इतश्च स्कन्दकाऽसूरो, ज्ञातपूर्वभवोऽवधेः । कुपितो नगरं प्राप्य, कुम्भकाररघटाभिधम् ॥१३३॥ | नवमो भवः स्कन्दकाचार्यकथानकम् KeXXXX For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy