SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामि चरितम् ॥ १५० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स वात्यां रचयामास, पातयामास पादपान् । पुरञ्च पूरयामास, दूरादपहृतैस्तृणैः ॥ १३४ ॥ ज्वलनं ज्वालयामास, त्रुत्त्रुडिति विब्रुवन् । कोपसप्तार्चिषोर्दाहे, नान्तरं किमपि स्फुटम् ॥ १३५ ॥ रे ! रे ! पालक ! मद्भालो, यत्रे यन्निहितस्त्वया । तदिदानीं पुरं वह्नि यत्रे निखिलमागतम् ॥ १३६ ॥ रे ! रे ! दण्ड किभूपाल ! त्वं दण्ड्यः प्रथमं मया । नृशंसानामपात्राणां स्थानं यच्छसि निर्घृण ! ॥१३७॥ मारणीया इमे पौरा, यदन्यायवतां पुरि । निवसन्ति न मे कवि दपराधः प्रगल्भते ।। १३८ ॥ एवं व्योमस्थितः क्रुद्धो, जजल्प स्कन्दकासुरः । कोपवलेर्महाज्वाला, इव वाचो बभ्रुश्च ताः ।। १३९ ।। हा ! हा ! दण्डकिभूपाल ! पश्यतस्तव पत्तनम् | क्षणादुपद्भूयते स्म निर्नाथमित्र केनचित् ॥ १४० ॥ हा ! तात ! तात ! हा! मात -रापदामुद्धृतिं मम । कुरुध्वमुपसर्गोऽयं, मारणान्तः समागतः ॥ १४१ ॥ एकाऽपराधे नगरं, समग्रमपि मार्यते । इक्षवः करिभिर्भुक्ता, पीड्यते माहिषं मुखम् ।। १४२ ।। इति लोकार्त्तनिःखानैर्मृत्योः पटहविभ्रमैः । पूरितो रोदसीकूपो, हा हा ! पालकजृम्भितम् ॥ १४३॥ पूत्करोति पुरोलक्ष्मी, स्फुटद्वंशगणच्छलात् । विधेयं रोदनादन्य- न्नहि भीरुभिरुचकैः ॥ १४४ ॥ सराजकं सराष्ट्रञ्च, सपौरञ्च सपादपम् । सपालकं सबालञ्च, सगजं सतुरङ्गमम् ।। १४५ ॥ द्वादशयोजनायामं तद्भूखण्डं महासुरः । चकार भस्मसात्कामं, खबोधिञ्च सुदुर्लभम् || १४६ ॥ युग्मम् ॥ दण्डकारण्यमित्याख्या - ख्यातमद्याऽपि तत्त्वभूत् । यस्मिंस्तृणप्ररोहोऽपि नाविर्भवति सर्वथा ॥ १४७॥ कृत्वेति स्कन्दकासुरो, निजस्थानमशिश्रियत् । अर्जयामास कर्माणि, वेद्यानि भवकोटिभिः ॥ १४८॥ For Private and Personal Use Only अष्टमः सर्गः नवमो भवः स्कन्दकाचार्यकथानकम् ॥ १५० ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy