SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुपविधिनी पाठपकरण नवमो मक अथ सूरिविभोर्वाक्यं, भावयन्समुपस्थितम् । अवन्दयन् मुनीन् देवान् , शक्रस्तवनपूर्वकम् ॥ ९ ॥ तदा चाऽऽलोचनां सूरिः, पञ्चातिचारशोधिनीम् । व्रतान्युच्चारयामास, नर्मितानि शमोर्मिभिः ॥९१॥ अकारयत्समस्ताङ्गि-क्षामणां क्षमयोक्षितः । अपाठयनमस्कार, द्वारं मुक्तिमहौकसः ॥९२॥ ददावनशनं सूरि-र्व्यसनं पापकर्मणाम् । चतुःशरणमूचे च, शरणं भववर्तिनाम् ॥ ९३ ॥ एवमेतत्स प्रत्येकं कारयन्मधुरध्वनिः । शमसाम्राज्यसौराज्यं, चकार भवमीतधीः॥ ९४॥ यं यं महामुनि यत्रे, चिक्षेपाक्षेपतो गुरु । तस्य तस्याधिको भावः, पीडाभिः सह वार्द्धतः ।। ९५ ॥ अस्थिभिः सह कर्माणि, शातयन्मुनिसत्तमः । अन्तकृत्केवलीभूय, जगाम परमं पदम् ॥ ९६ ॥ तस्य तस्य मुनेर्भावः, स्पर्द्धयेथाऽपरे मुनौ । सङ्कामनिवृतेश्चक्रे, प्रियत्वं बहुधाऽद्भुतम् ।। ९७ ॥ एवमेषामनिष्टेऽपि, मुखरागो मनोहरः । रङ्गः पादोपमर्दैन किं कुसुम्भस्य नैधते? ॥९८॥ एकोनायां पञ्चशत्यां, हतायां तेन पापिना । तेजस्वी क्षुल्लको दधे, पाणिना जात्यरत्नवत् ॥ ९९ ॥ पार्वणेन्दुमुखं कम्बु-कम्रकण्ठं सदम्बकम् । लसद्देहप्रभापूरैः, स्फुरन्तमिव सुस्मितम् ।। १०० ।। आधारमिव नेत्राणां, प्रमोदस्येव जीवनम् । धृतेरिव कुलागारं, सन्तोषस्येव सेवधिम् ॥१.१॥ राजवंशसमुत्पन्न, बालर्षि वीक्ष्य साधुराट् । उवाच पालकं भद्र!, पूर्व मां मारय द्रुतम् ॥ १०२ ॥ ॥ त्रिभिर्विशेषकम् ॥ अस्य प्राणान्तिकीपीडां, सोढा परिवृढोऽस्मि न । भविता हृदयं द्वेधा, पक्वेर्वारुफलं यथा ॥ १०३ ॥ कमानक For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy