SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजाऽनुमतितः स्वामी, राजभटशतैः समम् । पञ्चभिः पञ्चमज्ञानी प्रावाजयदनुक्रमम् ॥ ६॥ अभ्यस्तद्वादशाङ्गोऽथ, लब्धिरत्नैकरोहणः । आचार्यत्वे कृतः सर्व-विदा स्कन्दकसंयमी ॥ ६१ ॥ पञ्चशतमुनिग्राम-ग्रामणीरग्रणी धिया । विजिज्ञपद्विभुं नत्वा, कुम्भकारपुरे गमी ॥ ६२ ॥ वत्स! तत्रोपसर्गो वो, भावी भूरिभयङ्करः। सोऽप्यूचे नाथ! भावी स, क्लेशदो मृत्युदोऽथवा ॥६३ ॥ विभुरप्युक्तवानेवं, मारणस्तु भविष्यति । सूरिरूचे भविष्यन्ति, के तत्राऽऽराधकाः खलु ॥ ६४ ॥ आचार्य! त्वां विना सर्वे, मुनयो मुक्तिगामिनः । आय-व्ययतुलां सूरे !, विचारय चिरं हृदि ।। ६५॥ श्रुत्वेति विभुमानम्य, यतिपञ्चशतीयुतः । विहरन्जामिजीवेश-पुरं प्राप मुनीश्वरः ॥६६॥ पूर्वतः स्कन्दकाचार्य, समायान्तं पुरं प्रति । निशम्योद्यानमालासु, साधुयोग्यासु सर्वतः ॥ ६७ ॥ अस्मरत्रायतिं चित्ते, पालको बालकोपमः । च्छन्नं धौताऽसिशस्त्राणि, क्षेपयामास मूढधीः ॥६८॥युग्मम्।।। कथासंयोगतः काक-तालीयन्यायतः स्थितः। तास्वेवोद्यानमालासु, निर्विवादं विभोर्वचः॥१९॥ वन्दनार्थमगाद्राजा, राजमान्यैर्नरैः सह । कौमुदीक्षणवजने, तदिनं निखिलं क्षणैः ।। ७०॥ गो-व्याघ्र -मश्व-महिषं, ब्राह्मण-श्रमणं तथा । इति स्वभाववैरित्वं, दधानो हृदि पालकः॥७१॥ उवाच भूपति रात्रौ, विजने विनयोत्तरम् । अविचारपराः प्रायः, पशुपाला भवादृशाः ॥ ७२ ॥ विहयोचे नृपो भद्र !, किमकारि विचारहृत् ? । पथि भ्रष्टो हि किं मूढः, स्थाप्यते विदिताऽध्वना ।। ७३ ॥ पालकः स्माह भूपाल !, यत्ते शालकसंयमी । समागात्तत्र विज्ञातं, प्राज्ञ ! किश्चन कारणम् ॥ ७४ ॥ नवमो भवः स्कन्दकाच येकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy