________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततःप्रभृति निर्ग्रन्थ-त्रिपद्या पूतया तया । त्रिविक्रम इति ख्याति, प्रापाऽसौ जगतां त्रये॥ ४३३ ।। सङ्घश्चतुर्विधो नत्वा, त्रिविक्रममहामुनि । सुरा विद्याधराश्चापि प्रापुर्निजनिजां स्थितिम् ॥ सङ्घकार्यमिदं कृत्वा ततस्तप्त्वा तपः परम् । उत्पन्न केवलज्ञानो विष्णुर्निवृतिमासदत् ॥ ४३४ ॥ पद्मोऽपि राज्यमुत्सृज्य, संसारोद्विग्नमानसः । उपादाय परिव्रज्या, प्राप निर्वृतिवैभवम् ॥ ४३५ ।। कृतो विष्णुकुमारेण, भूमिकम्पः सुदारुणः । वर्षेन भारते जने, भृगुकच्छपुरेश्वर!॥ ४३६ ॥ श्रुत्वेति स्वामिना प्रोक्तं, जितशत्रुर्महीपतिः। श्राद्धर्ममुपादाय, स्वकृतार्थममन्यत ॥ ४३७ ॥ अथोवाच महीपालः, श्रुत्वेदं विभुभाषितम् । पञ्चेन्द्रियवधात्पापं, विदधे मुनिना कुतः ॥४३८॥ विभुरप्यवदद्भूप! सचार्थे चक्रिणो बलम् । निखिलं हन्यते शक्या, साधुना मोक्षबन्धुना ॥ ४३९ ॥ स स्थादाराधकः साधुः, सर्वकर्मविलुम्पकः । आत्मार्थ हि कृतो जीव-धातः सुगतिशातनः ॥ ४४० ॥ (यतः-) अहितं चैत्यबिम्बानां, निन्दकं मतभेदकम् । वारयेनिखिलस्थाना, पूर्व सामप्रकाशनात् ॥४४१॥ (यतः-) इदं दर्शनसर्वख-मिदं दर्शनजीवितम् । सामर्थेन यदर्थेन, क्रियते शासनोन्नतिः॥४४२॥ इदं ज्ञानमिदं तख-मिदं धर्मस्य शासनम् । यत्क्रियत आहेते धर्मे, सर्वस्थाना प्रभावना ॥ ४४३ ॥ धर्मवक्ता शासनज्ञो, वादी ज्ञानी महातपाः। विद्यावित् सिद्धविद्यश्च, कविरष्टौ प्रभावकाः॥४४४॥ अथोवाच महीनाथो, जिननाथ! प्रभावनाः। विधीयन्ते कथकारं, जिनशासनपावनाः॥४४५॥ विभुरप्युक्तवानेवं, बिम्बचैत्यप्रतिष्ठया । यात्रया च रथादीनां, श्रीमत्सङ्घसपर्यया ॥४४६॥
नवमो माया भूकम्पकारणे विष्णुकुमार वृत्तान्तर
श्रीमु. २५
For Private and Personal Use Only