SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुब्रतस्वामि चरितम् ॥१४४॥ नवमो भवः सर्वज्ञशासनाभिज्ञ!, ननु रूपं करोषि किम् । कोपात्तपांसि भूयांसि, दद्यन्ते मुनिसत्तमः ॥ ४१८॥ कोपेनापि हताः साधो !, स्वार्था दग्धा विपद्यपि । प्रयान्ति नरकं घोरं, भ्रमन्ति च भवार्णवम् ॥४१९॥ देशोनपूर्वकोट्या य-दर्जितं ब्रतमहतः । तत्कषायमनोवृत्तिः, हारयत्येव संयमी ॥ ४२० ॥ एवं शमयितुं कोपं किन्नरास्त्रिदशाङ्गनाः । शशंसुर्विष्णुनिग्रंथं वारंवार ववन्दिरे ॥ ४२१॥ भयार्तो नमुचिः पाद - लग्नः कोपवतामुना। मध्ये पूर्वाऽपराम्भोधे, चिक्षिपे कन्दुकोपमः ॥४२२॥ चकितो मत्रिदोषेण, प्रमादेनाऽपि चात्मनः । विज्ञातवृत्तपद्मोपि, तत्राऽऽयासीद्विवन्दिपुः ॥४२३॥ नेत्राश्रुजलकल्लोल-प्रक्षालितमुनिक्रमः । तं महर्षि नमस्कृत्य, चक्री जल्पितवानिदम् ॥ ४२४ ॥ त्रातः, पद्मोत्तरोऽद्यापि, त्वयि जीवति जीवति । किं सङ्घाशातनाकारी, त्वयि जीवति जीवति ॥४२५॥ चक्रे नमुचिना याकू, ताक् फलमुपस्थितम् । अपात्रे यादृशं चक्रे, ताक् फलमुपस्थितम् ॥४२६।। एकाऽपराधे त्रैलोक्य-मागतं प्राणसंशये । प्रायस्व करुणागार ! जीवरक्षापरायण! ॥ ४२७ ॥ एवमन्येऽपि भावेन, सुरासुरनरेश्वराः । सङ्घोऽपि सान्त्वयामास, भक्तिवाक्यैश्चतुर्विधः॥ ४२८ ॥ अतिदूरत्वतः साधु- शृणोद् भक्तिसंस्तवम् । भूयोभूयः क्रमस्पर्श, सङ्घश्चक्रे चतुर्विधः॥ ४२९ ॥ धीमत्सर्वज्ञशास्त्रार्था - नुगैर्गीतैः सुरस्त्रियः । जातस्मृतेरिवाऽऽत्मानं, समार मुनिसत्तमः ।। ४३० ॥ सङ्घ पादाम्बुजे लीन, चक्रिण भ्रातरं तथा । सुरासुरानपि प्राज्यान, दृष्ट्या कोपं स्म मुश्चति ॥ ४३१ ॥ संहृत्य वपुषा रूपं, ग्रन्थार्थमिव सत्कविः । मूलरूपधरो विष्णु-रभूद्धवनविश्रुतः ॥ ४३२ ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१४४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy