SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir al श्रीमुनिसुव्रतस्वामि सप्तमः सर्गः चरितम् ॥१४३॥ नवमा अवा अथोचे नमुचिः क्रुद्ध - स्त्वां विनाऽमी ममाऽखिलम् । मुञ्चतु विषयं मान्य-स्त्वं तु पद्माग्रजत्वतः ॥३९०॥ विष्णुरप्यवदत् स्मित्वा, विषयास्ते मनोहराः । येष्वमी विहरन्त्युच्चैः, पावयन्तो भुवः स्फुटम् ।।३९१।। यत:वतिनो जङ्गम तीर्थ, सदाचारपरायणाः । न सन्ति येषु देशेषु, कुतस्तेषां पवित्रता ॥ ३९२ ॥ यमुपार्जयन्ति वित्तं, कायक्लेशं विधाय मुनयोऽमी । साधयति तमक्लेशेन, नरपतिः पालनात्तेषाम् ॥३९३॥ इक्ष्वाकुवंशसम्भूतै - भरतायैनरेश्वरैः। ये वन्दिताः कथं मत्रिन् !, निःसारयसि तानिह ॥ ३९४ ॥ इत्युक्ते विष्णुना मत्री, प्रत्यूचे कुत्सिताशयः। अलं सामवचोभिस्ते, श्राद्धोद्रोधविधायिभिः ॥३९५।। वासं नेह ददाम्येषां, को निषेद्धा ममाधुना । राज्ञो विप्रियकारित्वात् , प्रत्यक्षा राक्षसा अमी ॥३९६॥ पुनरप्युक्तवान् विष्णुः , प्रशमामृतपूरितः। तिष्ठन्तूद्यान एवाऽमी, नगरीतः पृथकृताः ॥ ३९७ ।। तमृर्षि विहितामपं, न्यगदत्सचिवब्रुवः । पुरो बहिरपि स्थातुं, दो नहि वयं क्वचित् ॥ ३९८ ॥ यद्यमीषां तु मर्यादा - हीनानां विप्रियात्मनाम् । विज्ञप्तिश्चेद्विधाता त्वां, हनिष्यामि शृगालवत् ॥३९९॥ इत्युक्तेरकुपद्विष्णु-मुक्त्वा प्रशमशीतताम् । अतिनिर्मथनादग्नि-वन्दनादपि जायते ॥४०॥ अशुचे !नमुचे ! देहि, स्थानं मे त्रिपदीमिह । अथो नमुचिरित्यूचे, दत्तैषा मुण्डधारक ! ।। ४०१ ॥ ये त्रिपद्या बहिर्मुण्ड्याः , पश्यामि तानहं स्वयम् । दस्युवन्मारयिष्यामि, निक्षिप्य नृपवेश्मनि ॥४०२॥ एवमस्त्विति तेनोक्ते, मुनिना सह मन्त्रिराट् । आगादुपयनं काला-ननं तस्यैव मूर्तिमत् ॥ ४०३ ॥ KOKEXOXOXOXOXOXOX भूकम्पकारणे विष्णुकुमार FoXXXXXXXXXXX ॥१४३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy