________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
दामनकः स्वयं गेहे, नेताऽभून्मुनिभाषितात् । प्रातः पपाठ कोऽप्येतद् , बन्दी मङ्गलपाठकः ॥३१७॥ अणुपुंखमावहन्ता वि, आवया तस्स ऊसवा हुन्ति । सुहदुक्खकच्छपडहो, जस्स कयंतो वहइ पक्खम् ॥३१८॥ दामन्नको निशम्येदं, खचरित्रानुगं वचः । सहस्रत्रितयं हेनो, बन्दिने तुष्टये ददौ ॥ ३१९ ॥ अधिकं वणिजां दानं, निशम्य क्षितिवासवः। अमुमाह्वययामास, पप्रच्छ खयमागतम् ॥ ३२० ॥ गाथाश्रवणमात्रेण, दानं ते बन्दिनोऽधिकम् । सोऽप्याख्यान्मूलतः स्वीयं वृत्तमाश्चर्यकार्मणम् ॥३२१॥ तद्वृत्तश्रुतिसन्तुष्टः, पुष्टपुण्यमहर्द्धये । भूपालः प्रददावस्मै, स्वामित्वं वणिजां मतम् ॥ ३२२ ॥ अन्येद्यपि वणिनेता, निशाशेषेत्यचिन्तयत् । अन्तराया ममायाताः, अभूवन्नुत्सवा इव ॥ ३२३ ॥ विज्ञास्यामि कथमिदं चिन्तयन्निति चेतसि । चक्रिवान्देवपूजादि, प्रातः कृत्यं सुकृत्यधीः ।। ३२४ ॥ धर्ममित्राऽभिधो मित्र-मवादीदिति कोमलम् | उद्याने विमलबोधः, सरिरागाद्विरागधीः ॥३२५॥ तद्वचःश्रुतिसन्तुष्टो, गत्वा मरिमवन्दत । वाञ्छिताथ पृच्छति स्म, स पूर्वभवमुञ्जगौ ॥ ३२६ ॥ यजीवा निहताः पूर्व तद्विपाकः कुलक्षयः। यद्रक्षिताः परं मत्स्याः, दीर्घायुष्यं ततस्तव ॥ ३२७ ॥ यतःस्यात् ज्ञानी ज्ञानदानेन, सुखी सत्पात्रदानतः। दीर्घायुरभयदाना-द्दीने दानाच भोगभाक् ॥ ३२८॥ यदेकस्य तिमेः पक्षो, भनो जालविवर्तिनः । तत्तवाङ्गुलिका भन्ना, कृतेः प्रतिकृतिर्यतः॥ ३२९ ॥ दामन्नक इति श्रुत्वा, स्वचरित्रं महामुनेः । प्रपेदे तीर्थकद्धर्म, क्रमात्स्वर्ग जगाम च ।। ३३० ।।
भूकम्पकारणे विष्णुकुमार
For Private and Personal Use Only