________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनिसुव्रतस्वामिचरितम्
॥१४॥
अयं गृहपतिर्जातो, गृहे मूलं मृगीदृशः । तासां तु वल्लभाः पुग्यो, जामाता वल्लभस्ततः ।। ३०३ ॥ वरं वैधव्यमस्याः स्थान् , माऽभूदस्य गृहेशता । वरं निष्कुण्डलः कर्णो, न च्छेदेऽस्य प्रलम्बता ॥३०४॥ विमृश्येत्युपचण्डालं, गत्वाऽवादीत्कुतो नहि । स त्वया मारितो बाला, खञ्जपाणिश्च निर्मितः ॥३०५॥ सोऽप्युवाच वणिग्नेतः ! खं विनष्टं करोम्यहम् । प्राय एकाऽपराधे हि, क्षमन्ते किल कोविदाः ॥३०६॥ यदूचेस्थानं सर्वस्य दातव्यमेकवाराऽपराधिनः । द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः ।। ३०७॥ अथ स्मित्वावदच्छेष्ठी, साधु साधु त्वयोदितम् । सायं पद्रेश्वरीचैत्ये, प्रेषयिष्यामि तं खलु ॥३०८॥ स विधेयो गतप्राणो, यदि मे प्राणितप्रदः । सङ्केतमिति दत्त्वाऽगा-जामाता भणितोऽमुना ॥३०९॥ ब्रज पूजयितुं भद्र!, कुल्यां पद्रेश्वरी बहिः । परिणीतैनमस्कार्या, पूजनीया मनीषिभिः॥ ३१॥ अथाऽचालीदसौ सायं, स्तोकस्तोकपरिच्छदः । दृष्टः समुद्रदत्तेन, हट्टस्थेन विधेर्वशात् ।। ३११ ॥ दामन्नक ! प्रदोषेऽस्मिन् , कुतो जिगमिषा तव । आचचक्षे स सत्यं तन्-मा गाश्चौरा बहिर्यतः ॥३१२॥ तव स्थाने त्वहं देवी-मिदानीमर्चयामि भोः । त्वमत्र तिष्ठ सन्तुष्टः, प्रस्थितोऽहमितोऽधुना ॥३१३॥ सूचीभेद्यस्तमस्तोम-स्तदपुण्यादिवोत्थितः । बलिव्यग्रकराम्भोजः, सोऽगात्पद्रेश्वरीमठे ॥ ३१४ ॥ प्रविशन्नेष बाणेन, चण्डालेन निपातितः । द्वैतीयीकपदातिश्च, नंष्ट्वाऽगाच्छ्रेष्ठिनो गृहे ।। ३१५ ॥ समुद्रदत्तवृत्तान्तः, कथितः श्रेष्ठिनः पुरः । तेनाऽऽहतो मृतो बाण-बन्धुनेव वणिग्वरः ॥ ३१६ ॥
नवमो भवः भूकम्पकारने विष्णुकुमार
वृत्तान्तः
॥१४॥
For Private and Personal Use Only