________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खस्ति गोकुलात् श्रेष्ठी सागरपोतः सुतं समुद्रदत्तं सस्नेहमालिजय कुशलं वार्तयति
कार्यश्च अस्य पुरुषस्य धौतपादस्य विषं दीयतां इत्यर्थे न विकल्पः कार्यः॥ वाचयित्वेति तं लेख, विषयाऽचिन्ति सुन्दरः। प्रेयान्ममैष सम्प्राप्त-स्तातेन व्रजमीयुषा ॥ २९०॥ अतः खयमयं गोष्ठात्तातेन प्रेषितः पुरे । विषं मनाममात्रायां प्रमादवशतोऽलिखत् ॥ २९१ ॥ कथमस्य महापुंसः, कामस्येव वपुःश्रिया । प्रदीयते विषं घोरं, दीयते हि विषा खलु ।। २९२ ।। ध्यात्वेति नेत्रराजीवा-जनेन मुखविग्रुषा । विदधे शून्यतालोपः, आकारश्च कृतो नवः ॥ २९३ ॥ अथैव मुद्रितो लेखः, पुण्यात्किन प्रसिद्ध्यति । स्वयमागाद्विषा गेहे, सोऽपि निर्निद्रलोचनः ॥२९४॥ लेखः समुद्रदत्तेन, वाचितो मूलमत्रवत् । गणकश्च समाहूतो, लेखार्थः प्रकटीकृतः ॥ २९५ ॥ असौ सम्यग्निरीक्ष्योच्चैः, शुद्धिरस्याः करग्रहे । अद्यैव हायनान्ते वा, श्रेष्ठी सर्वविदाम्वरः ।। २९६॥ अथवा कथमेवैनं प्रेषयामास गोष्ठतः । समुद्रदत्त ! कर्त्तव्यः, उद्वाहोऽद्यैव सुन्दरः ॥ २९७॥ ततः समुद्रदत्तेन, भूरिवित्तव्ययात्तदा । अकारि सन्ध्यासमये, पाणिग्रहणमङ्गलम् ॥ २९८ ॥ अत्रान्तरे जनरायन् , गोष्ठाच्छ्रेष्ठीत्यभाषत । साधु साधु त्वया लब्धो, जामाता नयनप्रियः ॥२९९॥ श्रुत्वेत्यधायि तेनाऽथ, परिणीता विषा मम । अहो ! दैवस्य वैदुष्यं, सर्वकर्मीणमुत्थितम् ॥ ३०॥ कङ्कणाङ्कितहस्ताजं, भवद्भवलमङ्गलम् । वधू-वरं समायातो, दृष्टवान् वणिजापतिः ।। ३०१॥ यदस्य विग्रहं मूढः, कर्तुमिच्छामि किञ्चन । तदस जायते पुण्या-द्विहीनं मुनिभापितात् ।। ३०२ ॥
शनवमो मका
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only