________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीनिसुव्रतस्वामि
चरितम् ॥१३९॥
| नवमो भवः
तद्गुणै रञ्जिता सोच्चै-विनयः सर्वकार्मणम् । खाङ्गजातादप्यधिक-ममुं मेने मनोहरम् ॥ २७६ ॥ अथैष यौवनं प्राप, शृङ्गारद्विपकाननम् । इतश्चाऽऽणाद् वणिनेता, सागरस्तत्र कार्यतः ॥ २७७॥ सागरः सादरं दृष्ट्वा, ब्रजस्याऽधिपनन्दनम् । पप्रच्छ पुण्यसिंहश्च कोऽयमेषः सुलोचनः ? ॥२७८॥ यथातथमुवाचैष, दृष्ट्वैनं करखण्डितम् । सैष एनं विनिश्चित्य, दध्याविति दुराशयः ॥ २७९ ॥ अयं केनचिदानेन, श्वपाकेन न मारितः । अथवा यतीनां वाचो, जायन्ते वितथाः कथम् ? ॥२८॥ यथा स्थितस्य बाह्ये गो-धनस्यायमपि प्रभुः। तथा यदि रमाऽशेष-स्वामी स्यात्सत्यगीमुनेः ॥२८१॥ ध्यायन्तमिति गोखामी, श्रेष्ठिनं व्याजहार सः । कुतो यूयं चिरादत्र, समायाता नवा इव ॥२८२॥ पुण्यसिंह ! पुरस्तेऽहं, कथयिष्यामि मित्रवत् । परं राजगृहं यावत् , पुरं गत्वा ततः खलु ॥२८३।। यत्कार्य विद्यते श्रेष्ठिन्, तत्कार्य लिख्य पत्रके । येन मे नन्दनो याती-त्यूचे गोधननायकः ॥२८४॥ ओमिति प्रतिपद्याऽसौ, अलिखत्पत्रकेऽखिलम् । दामन्नकः प्रेषितश्च, दवा शिक्षां यथाविधि ॥२८५॥ गतो राजगृहे मागें, श्रान्तो वाद्यसुरालये । स्थितः सुष्वाप कण्ठस्थ - लेखः सुमुखलोचनः ।। २८६ ।। अथ तत्र विषा नाम, सागरश्रेष्ठिनन्दिनी । तत्पश्चवाणपूजायै, कल्याणी भक्तिभासुरा ॥ २८७ ॥ पूजयन्ती सरं देवं, सुप्तमेनमथैक्षत । नेत्रदन्तावलाऽऽलानं, कामं सङ्गमिवागतम् ॥ २८८ ॥ वीक्षमाणाऽथ तत्कण्ठे, लेखं ददर्श मुद्रितम् । उन्मुय वाचयामास, गिरा धीरं प्रशान्तया ॥ २८९ ॥
भूकम्पकारणे
विष्णुकुमारवृत्तान्तः
KOXOXOXOXOXOXOXo
॥१३९॥
For Private and Personal Use Only