SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सायमन्येद्यवि दाम-नका श्रेष्ठिनिरोपितः । चण्डालपाटकेऽयासी-दतो ध्वान्तमभृत् क्षितौ ॥२६॥ विधाय कर्तिका हस्ते, शब्दितस्तेन बालकः । सोज्गादज्ञानभावेन, गेहान्तर्बरो यथा ।। २६२ ॥ धृतश्च पाणिना बालो, मृणालमृदुदोर्लतः । संहर्षादिवचैस्तस्य, करुणा तरुणाऽजनि ॥ २६३॥ आः! पाप! कथमीक्ष-माचरिष्यामि निर्दयः। अमुत्र जातश्चण्डालः, किं मे भावि परत्र तु ॥२६४॥ निराग कथं हन्मि, सापराधमिवार्भकम् । न हस्तौ वहतो मेघ, नतोऽमुं मृदुलाङ्गकम् ॥ २६५ ॥ ध्यात्वेति श्वपचेनाऽथ, रटतः कन्दुनिखनम् । कुत्ता कर्तिकया तस्या-अलि: कमलनालवत् ॥२६६॥ तेनाऽभ्यधायि तातस्त्वं, किं मां हंसि कुलारिवत् । मुश्चैकदा, ददत्वाशु, जीवितं तब किङ्करः ॥२६७।। श्वपचः प्राह जीवस्य, यद्यर्थी व्रज दूरतः । अन्यथा कदलीलावं, लविष्यामि शिरस्तव ॥ २६८।। तेनोचे रुदता तात', कर्तास्म्येवमसंशयम् । अद्यप्रभृति ते पुत्रो, जीवरक्षाऽऽदिमं व्रतम् ॥२६९॥ एवमस्त्विति तेनोक्ते, मुमुचे सुलसाऽऽत्मजः। दर्शयामास स प्रातः, श्रेष्ठिनोऽङ्गुलिखण्डकम् ॥२७॥ तद्दर्शनादभूच्छेष्ठी, कृतकृत्य इवाशये । दुर्वारवैरिवाराणां, मारणे हि महासुखम् ॥ २७१ ॥ अथाष्टव्यामटन्नेष, सागरादेशकारिणा । गोकुलस्वामिना दृष्टः, पुण्यसिंहाभिधेन सः॥ २७२ ॥ विलोक्य सुन्दराकारं, बालमेनमुवाच सः । कुतस्त्योऽसि सखे ! सोऽथ, वभाषे शृणु बान्धव ! ॥२७॥ अदृष्टमातृकः सोऽहं, पुमानिव निरक्षरः । उत्सन्नवंशजातश्च, दामन्नक इति श्रुतः॥ २७४ ॥ श्रुत्वेत्युद्यद्दयोद्युक्तो, निरपत्यमृगीदृशः । स्वस्थाः स्नेहलचित्तेना-पयदेनं सुतोपमम् ॥ २७५ ॥ नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः दर्शयापुत्रो, जाम शिरस्त रानाशय । दुई श्रीमु०२४ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy