________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनि सुव्रक्खामि
चरितम् ॥१३८॥
एकः स बालको दैवा-जिजीव निखिले कुले । निर्ययौ च शुनां चक्रैः, कृतच्छिद्रेण कोलवत् ॥ २४७॥ श्रेष्ठि-सागरपोतस्य, भ्रमन्नेष गृहं ययौ। धृतश्च बहिरेत्येष, क्रियासमभिहारतः ।। २४८॥ दामाञ्जनेन बद्धोसौ, धृतो गेहे दिवानिशम् । दामन्नक इति ख्याति, स प्राप श्रेष्ठिनिर्मिताम् ॥२४९॥ अन्येबुलक्षणैर्लक्षैः, सङ्कीर्णो बहुभिः शुभैः। क्रीडां कुर्वनसौ बालो, वीक्षाञ्चके तपखिना ॥ २५० ॥ अवलोक्य दिशाश्चक्रं, वक्रेतरगुणो मुनिः । अपरं मुनिमाहैवं, बालो भावी गृहेश्वरः ।। २५१ ।। यदूचेभो आयन्त्रहमहवयणुतणुलक्खणेहिं मुणामि । इहु कालउ एयहघरहकम्मिणि भविस्सह स्सामि ॥२५२॥ सागरश्रेष्ठिनाऽश्रावि, मुनिनोदीरितं वचः। कुड्यन्तरस्थितेनोच-क्ष्यि वाच्यं दिवाऽनिशम् ।।२५३।। श्रुत्वेति दध्यौ स वणिग्, नैवैतेऽनृतभाषिणः। भवितव्यं कथमिदं, बलिष्ठा भवितव्यता ॥२५४॥ कथमेष गृहस्वामी, मयि पुत्रेऽपि जीवति । परमुपायः कर्तव्यो, यद्भविष्यः सुधीहि किम् ? ॥२५५।। विस्मृत्येव मुनेर्वाचः, सागरो वणिजाम्पतिः । दामनकमुपाहन्तुं, प्रारेमे निघृणाशयः ॥ २५६ ॥ अथ भूयिष्ठवित्तेन, मोदकानाम्प्रदानतः। चण्डालं चण्डमतिक-स्तोपयामास नित्यशः ॥ २५७ ।। सोऽप्यूचे वणिजांमुख्य !, निर्देशं देहि मेऽधुना । मारितस्तत्प्रसादेन, नीचा घपकृतिप्रियाः ॥२५८॥ ततो रहसि सोऽप्यूचे, निभृतं दामपुत्रकः । मारणीयो दर्शनीयं, प्रत्यभिज्ञानमाङ्गिकम् ॥ २५९ ॥ प्रतिपन्नमिदं वाक्यं श्वपाकेन विपाकतः। दानात्किं नहि सिद्ध्येत, दुःसाधमपि हेलया ॥२६॥
नवमो भवः भूकम्पकारणे विष्णुकुमार
॥१३८॥
For Private and Personal Use Only