SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥१३७॥ नवमो भवः तथा हिपुरं राजगृहं नाम, गृहं सकलसम्पदाम् । सुनन्दो नाम तत्राऽभू-आलिकः पापमालिकः ॥२१॥ जिनदासाऽभिधस्तस्य, मित्रं पात्रं महाधियाम् । अन्येधुरगमत्तेनो-द्यानक्रीडाचिकीरसा ॥ २२० ॥ श्रमणानामग्रणीः कोऽपि, तेनाऽदर्शि सुदर्शनः। मृर्तिमानिव तीर्थेश-धर्मशमधुरन्धरः ॥२२१ ॥ उभावथ मुनिं दृष्ट्वा, ववन्दाते तपोनिधिम् । न्यषीदताञ्च तद्वक्र-शीतांशुद्युतिनिर्मलौ ॥ २२२ ॥ जननी सुखकोटीनां, दलनी दुष्टकर्मणाम् । मथनी सर्वपापानां, शोधनी शिवकर्मणाम् ॥ २२३ ॥ जिनशासनसर्वखं, वश्या विद्यागमस्य च । जीयाजीवदया जीव-जीवातुः सर्वदेहिनाम् ॥ २२४ ॥युग्मम्।। न भोक्तव्यं क्वचिन्मांसं, स्वमांसमिव देहिनाम् । शाकिनी गुरवस्तेषां, निर्दया भक्षयन्ति ये ॥ २२५ ॥ श्रुत्वेति तद्वचः श्रव्य, सुनन्दोऽवददीदृशम् । अतः परं मुने! जीव-वधं कर्तास्मि न क्वचित् ॥२२६॥ बहुदोषमये सम्यक, विरक्तो मांसभक्षणे । जन्मन्यद्य दिनं जातं, गणनायां गणेश्वर ! ॥ २२७॥ पुनर्नत्वाऽमद्नेहं, सुनन्दः सुहृदा सह । धम कर्तु प्रवृत्तश्च, निवृत्तश्च महैनसः ॥ २२८ ॥ कदाचिदभवत्कालः, सर्वथा सस्यवर्जितः । येन नामाप धान्यानां, श्रूयते दृश्यते नहि ।। २२९॥ मांसभोजी जनो जज्ञे, क्षुधार्ताः किं न कुर्वते? । ततः सुनन्दो भणितः, प्रियया प्रियवाक्यतः ॥२३०॥ उपस्रोतो व्रज प्रेयो !, मत्स्यस्तोमजिघृक्षया । यथा तव कुटुम्बस्य, प्राणितुं भवति स्फुटम् ॥ २३१॥ असावूचे प्रिये! चारु, नोद्यते मुग्धमानसे!। किं कार्य जीवितव्येन, जीवहत्याविधायिना ॥ २३२ ॥ | भूकम्पकारणे विष्णुकुमार ॥१३७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy