________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥१३६॥
भ्रमः पेतुरगुः सङ्ख्या-नेयुयुधिरे परे । रक्ष रक्षेति जगदुः, केचिच्छत्रून्मुहुर्मुहुः ॥ १८९ ॥ अपात्यन्त किरातानां, पत्तयस्तृणमर्त्यवत् । अथ तैः संस्मृतो मेघः, स वृष्टः प्रलयाब्दवत् ।। १९० ॥ तद्वृष्टिप्रलये प्राप्ते, चक्री चर्म तदाऽस्पृशत् । द्वादशयोजनानीद-मवर्द्धत जलोपरि ॥१९१ ॥ चर्मोपरि स सैन्यो-भूदुर्चवारिनिवारकम् । छत्ररत्नं दधौ चक्री, चर्मवद्विस्तृतं क्षणात् ॥ १९२ ॥ महापद्मोऽथ दण्डे द्राग्, मणिरत्नं न्यवेशयत् । तेनार्केणेव विद्योत-श्चक्रे सैन्यस्य सर्वतः॥ १९३ ॥ गृहपत्याबरलेनो-प्यन्ते ये शालयो प्रगे। लूयन्ते ते च मध्याह्ने, सैन्यं तद्भोजनात्सुखि ॥ १९४ ॥' सप्ताहान्मेषकुमारैः, किराताः प्रतिबोधिताः। नत्वा दत्त्वा च विभवं, तदाज्ञा प्रतिपेदिरे ॥ १९५ ॥ तेनैव चर्मरलेन, गत्वा सिन्धोः परं तटम् । प्रसाध्याऽऽगमदुर्वीश-पार्श्वे सेनापतिस्ततः ॥ १९६ ॥ ततो हिमाचलोपान्ते, सैन्यमावास्य तस्थिवान् । विधिवत्तदधीशञ्च, साधयामास पचिवत् ॥ १९७॥ काकिण्याप्येकया जैत्री, प्रशस्तिमिव शाश्वतीम् । अद्रौ वृषभकूटाख्ये, स्वसज्ञां न्यस्तवानसौ ॥१९८॥ साधयित्वाऽथ सेनानी-गङ्गाया अपि निष्कुटम् । अगाच्चक्रिणमेषोऽपि, नाट्यमालमसाधयत् ॥१९९॥ महापद्मस्ततश्चक्री, गङ्गायास्तटमासदत् । देवीच जाह्नवीश्चक्रे, सिन्धुवद्वशवर्तिनीम् ॥ २०॥ द्वादशयोजनायामा, नवयोजनविस्तरा । निधयो नव विस्पष्टा, मञ्जूषाकृतयोऽभवन् ॥ २०१॥ नेपथ्याद्वा सुशास्त्राणि, मानाङ्कः पाण्डुकानिधेः । नेपथ्यविधयः सर्वे, नृनार्यो पिङ्गलादपि ॥२०२ ॥ चतुदशानां रत्नाना, लक्षणं सर्वरत्नतः । सेनानी गृहपतिश्च, पुरोहितगजी हयः॥ २०३ ॥
नवमो भवा
भूकम्पकारणे विष्णुकुमार
॥१३६॥
For Private and Personal Use Only