________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
अथ स्वमातृदुःखेन, महापद्मः प्रपीडितः । पुत्राणां मातृभक्तानां, कियदेतन्निगद्यते॥ ८७॥ निशीथे तु महापद्मः, सुप्तेषु पुरवासिषु । निर्ययौ हस्तिनापुरा-दभिमाने कुतः स्थिरः१॥८८॥ स क्रमादटवीं प्राप-देकां कालसहोदरीम् । तत्रापि पर्यटन्नेष, तापसाश्रममैक्षत ।। ८९ ॥ सच्चक्रे तापसैरेष, प्रियपान्थसमागमैः। एकोऽपि तत्र चाऽवासी-निजागार इवोज्वले ॥९॥ इतश्चम्पामहापुर्या, भूधनो जयमेजयः। रुद्धः कालमहीन्द्रेण, युद्धाऽनश्यत्कथश्चन ॥ ९१॥ कालराजभटैः काल-चरैखि महापुरी । लुण्ठ्यते स्म गतप्राणा, पुरनाथे पलायिते ॥ ९२ ॥ तस्यान्तःपुरपभिन्यः, कुरङ्गीव दवानले । काकनाशं स्म नश्यन्ति, गतिः काऽन्या हि भीजुषाम् ॥ ९३॥ चम्पेशितु: प्रिया नाग-वती वसुतया सह । प्रनष्टा मदनावल्या, तत्राऽज्जात्तापसाश्रमम् ॥ ९४ ॥ अमुष्य मदनावल्या, समम् विषयवाणतः । अन्योन्यदर्शनाजज्ञे,-ऽनुरागः प्रकटो हृदि ॥९५ ॥ जातरागामिमां ज्ञात्वा, प्रोवाच मदनावलीम् । मा काश्चिापलं पुत्रि! स्मर नैमित्तिकं वचः॥९६ ॥ षट्खण्डभरतक्षेत्रं, शासितुस्त्वं भविष्यसि । पत्नी निमित्त केनेति, ख्यातमस्ति पुरः स्मर! ॥९७॥ यत्र वा तत्र वा पुंसि, माऽनुरागं वृथा कुरु । न भाति चरणे बद्धं, करमस्य हि नूपुरम् ॥ ९८॥ एवमुक्ताऽपि वात्सल्यात्, रागं तु मदनावली। दधार मानसगतं, दुर्जेय स्मरवल्गितम् ॥ ९९ ॥ यत:अपि चण्डानिलोद्भूत-तरङ्गस्य महोदधेः। शक्येत प्रसरो रोडु, नानुरक्तस चेतसः ॥ १०॥
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
श्रीमु०२३
For Private and Personal Use Only