________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतखामिचरितम्
॥ १३२ ॥
********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महापद्मबलं सर्वं न किश्चित्करताङ्गतम् । तेजखिनोऽप्यलं योद्धुं न भटा स्तम्भभित्तिषु ॥ ७२ ॥ रुपितोऽथ महापद्मो, दशन्नोष्ठदलं रुषा । उवाच नमुचिं वेत्सि, किश्चित् सिंहजये बलम् ॥ ७३ ॥ सोsप्यूचे देव ! जानेऽहं किं भूयो भाषितैर्वृथा । सैंहं पराजयं देव ! मद्बुद्धिः कथयिष्यति ॥ ७४ ॥ त्वत्प्रसादान्महापद्म !, न गेहेनर्द्दिनो वयम् । मर्द्दिनः परमानानां कोऽयं पल्लीपतिर्मम ॥ ॥ ७५ ॥ अथाssदिष्टः प्रहृष्टेन, महापद्मेन तत्क्षणम् । स ययौ तस्य तद्दुर्ग, महावात इवाऽस्खलन् ॥ ७६ ॥ तद्दुर्गं सन्धितो भक्त्वा, बुद्ध्या किं न हि सिद्ध्यति ? | जीवग्राहञ्च जग्राह सिंहं पल्लेरधीश्वरम् ॥ ७७ ॥ अन्येद्युस्तीर्थकृद्विम्ब - सनाथो रथ उत्तमः । महापद्माम्बयाकारि, ज्वालया तत्वमालया ।। ७८ ।। तदा लक्ष्म्याऽज्ञया मिथ्या-दशा तस्याऽपराम्बया । तत्प्रातिकूल्यतो ब्रह्म - रथोऽकार्यत सत्वरम् ॥ ७९ ॥ पूर्वं भ्राम्यत्वयं ब्रह्म- रथो निखिलपत्तने । पश्चाद्रथो जिनेन्द्रस्य, लक्ष्म्या राजेत्ययाच्यत ॥ ८० ॥ ज्वालाऽपि भूपतिं प्रोचे, मया जैनो महारथः । कर्णीरथायितोऽकारि, संसाराम्बुधितारणे ॥ ८१ ॥ स्वाभिस्तव प्रसादेन परिभ्राम्यतु मे रथः । प्रायो मिथ्यादृशो जैन-मुत्सवमसहिष्णवः ॥ ८२ ॥ अधोमुखमथोवाच भूपो लक्ष्मीवचोऽखिलम् । पूर्व मम तयाज्ञप्तं, प्रतिपन्नं मया च तत् ॥ ८३ ॥ क्रोधोज्वालमथो ज्वाला-लापीद्यदि रथो मम । न भ्रमिष्यति पूर्व तत् कर्तास्म्याऽऽहारवर्जनम् ॥ ८४ ॥ श्रुत्वेदं भूधनोऽध्याय-दितो व्याघ्र इतस्तटी । अयं न्यायः समायातो, ह्यविमोच्याग्रहास्त्रियः ॥८५॥ ततः संशयमापन्न, उभयो रथयोरपि । राजाऽरौसीन्महायात्रां, विग्रहे निर्णयः कथम् १ ॥ ८६ ॥
For Private and Personal Use Only
सप्तमः सर्गः
नवमो भवः
भूकम्पकारणे विष्णुकुमार
वृत्तान्तः
॥ १३२ ॥