SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः XOXOXOXOXOXOXOXXXXX जनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्मेप्रयी न भुते ॥५७॥ विषयी विषयासक्तं, सधनः सधनी गृही गृहिणमेव । सारम्भस्सारम्भं न तुल्यदोषस्तु तारयति ॥५८॥ विषयी विषयारक्तं, सधनोऽस्तधनं गृही गृहवियुक्तं । सारम्भोऽसारम्भ, संसृत्य भवार्णवं तरति ॥ ५९॥ क्षुल्लकेन महामात्य, इत्थङ्कारमपोहितः । स्याद्वादवादिनी वाणी, न कचित्पतिहन्यते ॥६॥ स्वस्थानमगमन्मत्री, कृताऽधोमुखकोटरः। परनिन्दापराणां हि, कुत ऊर्ध्वस्थितिभृशम् ॥११॥ राजादिभिः श्रुतो धर्मः, श्रीमत्सुव्रतभाषितः । को नाम रत्नमादातुं, नोत्को भवति कोविदः ॥ ६२॥ राज्ञि राजजने वापि, प्रयाते निजवेश्मसु । स मत्री निशि चोत्तस्थौ, निशाचर इवाऽपरः ॥ ६३ ॥ जज्बाल क्रोधशिखिना, धारालतरवारिभृत् । उपोद्यानमसौ प्राप, तद्वधाय कृतोद्यमः ॥ ६४ ॥ ततः शासनदेव्यासौ, मान्त्रिकेणेव पन्नगः । स्तम्भितो ददृशे प्रातः, पौरैर्वन्दितुमागतैः ।। ६५ ॥ तदाश्चर्य तदा प्रेक्ष्य, राजा राजजनोऽखिलः । जहर्षुः प्रतिपेदाना, जैन धर्म सनातनम् ॥ ६६ ॥ मुक्तः शासनदेव्यासौ, स मत्री हस्तिनापुरम् । अगाद्विदेशगमनं, युज्यते ह्यपमानिनाम् ॥ ६७॥ महापद्मः स्वसाचिव्ये, युवराजो व्यधादमुम् । अन्यप्रधानसन्मान-सावधाना विवेकिनः॥६८॥ इतः पल्लीवनाध्यासी, महादुर्गेण दुर्जयः। सिंहो नामाऽस्ति पल्लीशः, साक्षात् सिंहपराक्रमः॥६९ ॥ अवस्कन्ध महापद्म-मण्डलं निखिलं छलात् । प्रविवेश महादुर्ग, धर्तुं शक्यो न केनचित् ॥ ७० ॥ चतुर्दिक्षु महानद्य-स्तरवोऽभ्रंलिहास्तताः । रोगकारीणि वारीणि नाहलाः कालकेलयः ॥ ७१ ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy