________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनि। सुव्रतस्वामि-X चरितम्
॥१३१॥
FoXXXXXXXXXX
मद्गुरोर्वादिसिंहस्य, पुरस्तात्त्वं कथं स्थितः । किमिदं न श्रुतं वाक्य - मिति कद्वद ? वाक्पटो!॥४५॥ रेरे! काननसैरिभ ! प्रतिदिनं, पुच्छच्छटाछोटनं, कुर्वाणेन किमेष केसरिरिपुर्मूढ ! त्वया कोपितः । दृष्टं येन मदान्धसिन्धुरघटागण्डस्थलीपाटन- व्यग्रेणापि रणाङ्गणे विवलितग्रीवेण कान्ताननम् ॥ ४६॥ श्रुत्वेति क्षौल्लिकी वाचं, कोपाजज्बाल सोऽधिकम् । उवाच दूषय क्षुल्ल !, गृहिधर्मों मयोदितः ॥४७॥ उवाच क्षुल्लकः क्षिप्रं, कथं शस्यो गृहाश्रमः ? । यत्र तिष्ठन्ति पश्चापि, सूना नित्यमुदीरिताः॥४८॥ खण्डनी-पेषणी-चुल्ली-जलकुम्भः-प्रमार्जनी । पश्च सूना गृहस्थानां वर्ग तेन न यान्त्यमी ।। ४९ ।। कन्या-फलादि धर्माय, यत्त्वयोदीरितं वचः। तच्च तत्त्वपथोत्तीण, विस्तीर्ण भववर्द्धनम् ॥ ५० ॥ (यदूचे-) भवभ्रमणवीजेन, दाम्पत्येन नियोजिता । योजयित्रे परं कन्या, पाप्मानमुपयच्छति ॥५१॥ संसारकारणं कामः, सर्वतत्रैनिंद्यगते । तस्य प्रबोधं धर्माय, बुवतां कौशलं महत् ! ॥५२॥ मन्मथस्य परित्यागो, यथा निर्वाणसाधनम् । तथैव सहस्तस्य, सिद्धं संसारसाधनम् ।। ५३ ॥ अपुत्रस्य गतिर्नास्ति, यदिदं कथ्यते त्वया । स्वर्गसौख्यभुजः कोऽस्ति, पुत्रः पवनजन्मनः? ॥ ५४॥ बहुपुत्रत्वतः वर्गो, यदि स्यादङ्गिनामिह । तर्हि कुर्कुटगोधासु, खर्गोऽपि बहुसूतिपु ॥ ५५ ॥ यत्त्वया तीर्थकृद्धर्मो, निन्दितो दुष्टचेतसा । एतावता निविष्टः किं, यदिदं न श्रुतं वचः॥५६॥ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयम् , स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः॥
KOKA-KOKOKEKOKOKO-KO-KOKOM
नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः
॥१३१॥
For Private and Personal Use Only