SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भक यामो वयमपि क्षोणी-नेत्रेत्युक्तेऽब्रवीदसौ । चेद्वः सद्धर्मशुश्रूषा, वक्ष्ये तं श्रुतिसङ्गतम् ॥३०॥ राजाऽप्युवाच सद्धर्मः, श्रुतस्तव मुखावहुः । खप्रत्ययकृतेऽन्यत्र, श्रोतव्यो हि मनीषिणा ॥ ३१॥ यः सर्वसम्मतो धम्मो, हितः स्वपरयोश्च सः। स एव व्यवहर्तव्यः, पूर्वापराविरोधतः ॥ ३२ ॥ नूनं वयं गमिष्यामः, श्रीवर्मा पुनरब्रवीत् । परीक्षकाणां तत्वेषु, परीक्षाक्षेपशेमुषी ॥३३॥ विज्ञाय निश्चयं राज्ञो, नमुचिः सचिवोऽवदत् । स्थेयं तत्र गतैः पूज्य-ध्यिस्थ्यस्थितिशालिभिः॥३४॥ तथैव तान्विवादेन, पराजिग्ये पशूनिव । यथा पाखण्डिपाण्डित्यं, मुण्डास्ते न हि कुर्वते ॥ ३५ ॥ भवत्वेवं नृपेणोक्ते, भूमीशः सपरिच्छदः । जगाम सुव्रताचार्य-सन्निधौ विविधाशयः ॥ ३६॥ अथोचे सचिवो मुण्ड !, पाखण्डं विधृतं कथम् ? । गृहाश्रमसमो धर्मो, न भूतो न भविष्यति ॥ ३७॥ यस्मिन्कन्याफलादीनि, सुकृतानि सहस्रशः । तत्राऽक्षमेण कर्तव्यो, धर्मः पाखण्डिनां मतः॥ ३८॥ अपुत्रत्वात्कथङ्कार, मूर्खः स्वर्ग गमिष्यति । नाऽद्यापि हि गतं तेऽस्ति, गृहिधर्म समाश्रय ॥ ३९॥ एवमुच्चावचैस्तस्य, वचोभिर्नमुचेमुनिः । क्षमामेकामसौ चक्रे, नास्ति सौख्यं क्षमासमम् ।।४०॥ अमुं मौनिनमालोक्य, विजितोऽयं मयाऽधुना । ध्यात्वेति शासनं जैन, बाढं निन्दितवानसौ ॥ ४१ ।। श्लेष्मवदुर्जनो लोको, मधुरैः परिकुप्यति । प्रत्युत कटुस्तीक्ष्णः, प्रशान्तिमुपगच्छति ॥ ४२ ॥ ध्यात्वेति सुव्रताचार्य-पादानत्वा विनेयकः। अभ्यधादिति वादाय, जिह्वा कण्डूयतेतराम् ॥ ४३ ॥ तिष्ठन्तु सूरयो देव!, आवयोलियोरिख । विवादोऽस्तु महीपाल !, सभ्यीभूय प्रगल्भ्यताम् ॥ ४४ ॥ भूकम्पकारणे विष्णुकुमार वृत्तान्ताः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy