________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि
षष्ठः सर
सुव्रतस्वामिचरितम्
॥१२६॥
तथाह्यासीत्पुरे रम्ये, विजयोपपदे नृपः । नलो नाम सुदुर-वैरिद्रुमदवानलः ॥ ५८६ ।। सौभाग्यसुन्दरी नाम, भाग्यसौभाग्यमन्दिरम् । देवी देवीव रूपेणाऽ-मुष्य शीलेन शालिनी ॥५८७।। मत्री मत्रितिलकाऽऽख्यो, राज्यभारधुरन्धरः। समभूदस्य नीतिज्ञा, प्राज्ञः स ज्ञानशेवधिः ॥५८८।। अन्येधुर्मत्रिणा साक-मारूढो मुद्गभोजिनि । मृगयायै गतो लुब्धैर्लुब्धकैः पापवाहिमिः॥ ५८९ ॥ वनमावृत्य सैन्येन, स्थितोऽन्तर्भूपतिः स्वयम् । कार्दमिकाम्बरधरः, सपत्तिः सशरासनः॥ ५९॥ यावत् कोदण्डमाकृष्य, वाणं क्षिपति भूपतिः। तावन्मृगो जगादैवं, गम्भीरं नरभाषया ॥ ५९१ ॥ कोऽयं न्यायः पशुः स्वामिन् !, कांदिशिकोऽपि हन्यते? ।
जिघासंन्तं जिघांसीया-दिति वेदविदा श्रुतिः ॥ ५९२ ॥ न हृतं भवतः किञ्चि-नापराद्धं मया तव । वने भ्रमामि पवनं, पिवामि क्षत्रियाग्रणी? ॥ ५९३ ॥ श्रुत्वेदं भूपतिः स्माऽऽह, मत्रिनेष मृगः कथम् । भाषते नर भाषाभि-दिव्यरूपसुरो नु किम् ? ॥५९४॥ गन्तुं वने प्रवृत्तोऽथ, हरिणो मन्दचर्यया । विलोकमानो भूपालं, मुहुर्विवलिताऽऽजनम् ॥ ५९५ ॥ अथ मन्त्री जगादाऽथ, गम्यतामस्य पृष्ठतः। किं करोति कुतो याति ?, सर्वाऽऽश्चर्यकरो मृगः ॥५९६॥ ओमित्युक्त्वा महीपालोऽ-नुमृगं यान् शनैः शनैः। मुनिमेकं महारण्ये, कायोत्सर्गपरायणम् ।। ५९७ ॥ नासाग्रदत्तदृगद्वन्द्वं, पश्यन्तं परमं महः । ततः परंपदं वाञ्छ-न द्राक्षीत् क्षतमन्मथम् ॥ ५९८ ॥युग्मम्भो! भो! नमत निर्ग्रन्थं, चेयूय भवभीरवः । इत्युवाच मृगो भूपं, प्रति प्रीतितरङ्गितः ॥ ५९९ ।।
| नवमो भवः
संस्तवदोष मनितिलक वृष्टान्तः
म
॥१२६॥
For Private and Personal Use Only