SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नबमो भवः ददती तीर्थनाथानां, रासकान्प्रतिमन्दिरम् । निर्माल्यं मालिनीमौलौ, चक्रे हल्लीसकं सती ॥५४१॥ साऽज्ञायि जिनदेवेन, नर्मदेयं महासती । परं कुतो बभारैषा, अहिलत्वं दिवाऽनिशम् ।। ५४२ ॥ उद्याना-भिमुखी साऽथाऽचालीलीविगुण्डिता । ववाल बालकैर्लोकः, का प्रयाति निरर्थकम् ॥५४३॥ दूरं गत्वा रहः स्थित्वा, साऽकार्षीचैत्यवन्दनाम् । जिनदेवोऽपि तत्रागात् , तत्वरूपावबोधने ॥५४४॥ ताम्बीक्ष्याऽसौ नमन्मौलि-वन्दे वन्दे गद न्विति । साऽपि तं श्रावकं बुद्धा, याथातथ्यमवोचत ॥५४५॥ असौ जगाद त्वत्कार्ये, वीरदासेन नन्दिनि! । भृगुकच्छात्प्रेषितोऽहं, मा विषीद मनागपि ॥५४६॥ प्रातर्घण्टापथे मुक्तं, हविःपूर्ण महासति ।। कुट्टयेर्ल कुटः कुम्भ-सहस्रं नवपात्रवत् ॥ ५४७॥ सङ्केतमिति दत्त्वासा-वुभौ प्रविशतां पुरे । द्वितीये दिवसेऽभासीत्, कुम्भान् किलकिलारवम् ॥५४८॥ जिनदेवस्ततः कृत्वा, शाखोद्धारं नृपान्तिके । गत्वाऽवोचत साक्षेपं, मार्यन्ते पोतवाहकाः ॥५४९॥ देवोत्तिष्ठ यथा तेऽहं, दर्शयामि महापथे। वणिजः प्रायशो राजन् !, प्रत्यक्षं निगदन्ति यत् ॥५५०॥ ततो भूपतिमादाय, घटभङ्गमदर्शयत् । देव! लाभो गतो हानि, लाभार्थे सोद्यमा वयम् ।। ५५१ ॥ ग्रहिलायाः स वृत्तान्त-मवबुद्ध्याऽऽह पौतिकम् । क्षिपैनां परतोऽम्भोधे-रस्माकमुपदेशतः ॥ ५५२ ॥ इयमत्र स्थिता पापा-ऽनर्थानेवं विधास्यति । हन्तुं न शक्यते रामा, किमु अहिलमानसा ॥ ५५३ ॥ ओमित्युक्तेऽथ तेनोचैः, सुदृढं केशतन्तुना । नियम्याऽक्षेपि यत्पोते, गूढमत्रा वणिक्रिया ॥५५॥ पोतप्रयाणतः प्राप, भृगुकच्छपुरं वणिक् । तत्तातं ज्ञापयामास, प्रहृष्टो नर्मदापुरं ॥ ५५५॥ प्रशंसादोपे ऋषिदचाकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy