SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतखामि चरितम् ॥ १२४ ॥ xaxaxaxx XXXX* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमस्कार प्रभावेण गतप्राणा पणाङ्गना । मूलोद्देहिकवल्लीव, पपात क्षितिमण्डले ।। ५२६ ॥ विज्ञाय हरिणीप्राण- संहारं नरनायकः । उवाच मन्त्रिणं काश्चि चत्पदे कुरु कामिनीम् ।। ५२७ ॥ अथ मत्री नृपादेशा - द्धरिणीगृहमीयिवान् । नर्मदारुपमालोक्य, विस्मयं गतवान् भृशम् ॥ ५२८ ॥ भद्रे ! कुर्वे नृपादेशाद्, भवन्तीं हरिणीपदे । निर्गमोपायमाधाय साऽवोचत भवत्विति ।। ५२९ ॥ विन्यस्य तत्पदे मन्त्री, गतवान्नृपपर्षदि । ददौ साऽपि धनं तस्या - दीनोद्धार विधित्सया ।। ५३० ॥ अन्येद्युर्याप्ययानं राहू, प्रेषयामास तत्कृते । तं निरीक्ष्य निदध्यौ सा, रक्ष्यं शीलं कथं मया १ ॥ ५३१ ॥ वित्तं गतमपि प्रायः, प्राप्यते प्राणिभिः कथम् । न कदापि शीलरत्नं गृहीतं रागतस्करैः ।। ५३२ ।। ततः सतीतमा शील- रक्षोपायपरायणा । वहन्त्यङ्कोल्लसद्भूरि-कृमिजालकरम्बितम् ॥ ५३३ ॥ गृहश्रोतो जानुदनं, दुर्गन्धं जीर्णधान्यवत् । साक्षान्नरकसङ्काशं, वीक्षते स्म कृतस्मिता ॥ ५३४ ॥ युग्मम् ध्यात्वेति याप्ययानात्सा, समुत्तीर्य महासती । विद्वराहीव तत्पङ्के, लुठति स्माशठाशया ।। ५३५ ।। अहो ! पीयूषकल्पोऽयं, मनुष्यजलभूरसः । इत्युक्त्वा सा पपौ नीरं, शीलार्थे किं न तन्यते ? || ५३६ ॥ क्रुद्धेव क्रोशति स्मैषा, जनान् गालिप्रभाषणात् । शुष्कोव्र्व्यां विलुलोठोच्चैर्वडवेव श्रमाविला ||५३७॥ उवाच वाहमुश- माताऽस्मि देवतास्म्यहम् । एवं शीलस्य रक्षायै, ग्रहिलेव व्यचेष्टते ।। ५३८ ।। अथ विज्ञातवृत्त राहू, प्रेषयन्मात्रिकान्वरान् । तग्रहं निग्रहं कर्तुमसमर्था वृथाऽभवन् ।। ५३९ ।। अथ तैरपि सा मुक्ता, ग्रहिलत्वं वितन्वती । अकरोत्ताण्डवं डिम्मै र्मण्डिता रेणुगुण्डिता ॥ ५४० ॥ For Private and Personal Use Only षष्टः सर्गः नवमो भवः प्रशंसादों ऋषिदत्ता कथानकम् ॥ १२४ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy