________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तवानित्यसी हाभृिगुकच्छपुरं प्रा
. तं वृत्तं तस्य च
FOXOXOXOXOXOX** *
नवमो भवा
अप्राप्तशुद्धिलेशोऽपि, ध्यातवानित्यसौ हृदि । मयि सत्यत्र मत्रासा-न कोऽपि स्फुटयिष्यति ॥५१॥ तदहं यामि वेगेन, ध्यात्वेति चचलाऽम्बुधौ । भृगुकच्छपुरं प्राप, तदुपायैकमानसः ॥ ५१४ ॥ तस्मिन् सखाऽस्य जैनेन्द्री, जिनदत्ताऽभिधः सुधीः । द्वैतीयकमिव स्वान्तं, तं वृत्तं तस्य चाऽवदत् ॥५१५॥ याहि तत्राऽऽशु तां बाला- मन्वेष्याऽऽनय नीतिवित् ! | नष्टेष्वार्तेषु मीतेषु,
कालक्षेपो हि मृत्युवत् ।। ५१६ ॥ तद्वृत्तं ज्ञापयामास, स वीरो नर्मदापुरे । तच्छ्रुत्वा दुःखपाथोधौ, खजना न्यपतस्तदा ।। ५१७ ॥ इतश्चवीरदासं गतं ज्ञात्वा, हरिणी पणहारिणी । उवाच नर्मदामेवं, वेश्यात्वं रतये कुरु ॥ ५१८ ।। भुक्ष्व वैषयिक सौख्यम् , नरैर्नवनवैभृशम् । द्रविणं विद्रवाऽशेष, मामकीनं मनोरथैः ॥ ५१९ ॥ तनिशम्य जगादाऽसौ, मा वादी१ःश्रवं वचः । कुलटात्वेन लजन्ते, सलज्जाः कुलवालिकाः॥५२०॥ रुष्टाध्य हरिणी दुष्टा, कशाभिस्तामताडयत् । गैरिकारेणुरक्तेव, साऽभूद्रुधिरबिन्दुभिः ।। ५२१ ॥ इमामचे ततश्चेटी, वीक्ष्य स्वात्मानमात्मना । उत्फुल्लकिंशुकमयं, प्रतिपद्यख तद्वचः॥ ५२२ ॥ विहस्य नर्मदा प्राह, नैतत्कय॑स्मि चेटिके ! । भवे भवे भवेदेहो, नो शीलं मूलमुन्नतेः ॥ ५२३ ॥ एकदा दुःखदः प्राणा-पहारः सर्वजन्मिनाम् । शीलाऽपहारः सर्वार्थ-ध्वंसकर्ता भवान्तरे ॥५२४ ।। अथ रुष्टा पणवधू-दण्डैः कष्टायते भृशम् । स्मरन्पश्चनमस्कार, भद्रा भद्रायतेतराम् ॥ ५२५ ॥
प्रशंसादोपे ऋषिदत्ताकथानकम्
For Private and Personal Use Only