________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
इत्यालोच्य तया वार्द्धि-तटे प्रोत्तम्भितो ध्वजः। लक्षगं भनोताना, जीवो जीवेदुपायतः॥४८३॥ इतश्च वीरदासाऽऽख्यः, पितृव्योऽस्याः कथश्चन । प्रयान् बर्बरकुले च, तत्रागाद्दत्तशब्दवत् ॥४८४॥ चिह्न वीक्ष्य पताकाया, उत्तीर्य पदचारतः। तत्रागाद्वीक्षयामास, नर्मदासुन्दरी सुताम् ।। ४८५ ।। पूजयन्तीं जिनं भक्त्या, स्तुवन्तीं सरसैः पदैः। नृत्यन्तीं च पुरो भावान्, नमन्ती प्रणिधानतः ॥४८६॥ तां दृष्ट्वा चिन्तयामास, नेयं मे नर्मदा सुता! । क सा क्व चाध्यमम्भोधिः, कथमेकाकिनी च सा ॥४८७॥ उपलक्ष्य पितुर्धाता, महास्नेहमनोहरम् । तत्कण्ठपीठमालम्ब्य, रुरोदाऽऽरावभैरवम् ॥ ४८८ ॥ सोऽपि तां प्रत्यभिज्ञाय, बाष्पपूर्णक्षणोऽजनि । पृच्छति स्म कथं भद्रे, कान्तारे देवतासखि! ॥४८९॥ यथावृत्तं सुषुप्ता सा, तं वृत्तान्तमचीकथत् । घटते दैवतः पुत्रि!, मा विपीदेति सोऽब्रवीत् ॥ ४९० ।। देहशुद्धिं विधाप्याऽथ, भोजयित्वा सुनन्दिनीम् । प्रयातो बर्वरकुले, स पोतादुत्ततार च ॥ ४९१ ॥ विस्तार्याऽथ पटकुटी, तत्र विन्यस्य नर्मदाम् । उपराजं गतः पोत-नायकः प्राभृतोत्तरः॥ ४९२ ॥ राज्ञा सम्मानितः कामं, निजाश्रयमशिश्रियत् । इतश्च तत्र वास्तव्या, हरिणीति पणाङ्गना ॥ ४९३ ॥ वेश्यानां स्वामिनी राज-गौरवाहा॑ मनखिनी । सर्ववेश्यार्जितं द्रव्यं, खस्याऽपि भूभुजेर्पयत् ॥४९४॥ तस्मै पोताधिपो बाह्यो, निखिलो नृपशासनात् । दीनाराणां दशशती, ददात्यष्टाधिका धनी ॥४९५।। अन्येयुः प्रेषिता चेटी, वीरदासमवोचत । अभूमिगोचरी देवी, कामुकी हरिणी तव ॥ ४९६ ॥ वीरदासो बभाषेऽथ, स्मित्वा स्मरपराजयी । खदारतोषिवान् भद्रे !, कामये नाऽपरामपि ॥ ४९७ ॥
प्रशंसादोचे ऋषिदत्ताकथानकम्
For Private and Personal Use Only