SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् प्रथमः सगः व्यन्तरीं भूचरीनाम्ना, नगरोद्यानवासिनीम् । चतुर्वक्रां चतुर्नेत्रां, विद्धि मां मठवाहिनीम् ॥१७२॥ इयं तिष्ठेव निष्ठ्यूतं, ममोपरि दुरात्मिका । अतो हेतोया मत्रिन् ! सङ्ग्रहीता पुरो बने ॥ १७३ ॥ मात्रिकस्त्वादृशः स्फूर्ज-त्प्रभावो बुबुधे नहि। अतो मन्तुं क्षमस्खैकं, सन्तो यन्नतवत्सलाः॥१७४॥ इत्युक्त्वा व्यन्तरी व्योम, विहायनामगादथ । बलिभ्योऽपि बलीयांसो, विपुला विपुला यतः॥१७५।। अथोवाच महीपालः, कुमारं प्रति सादरम् । परोपकारधौरेय ! मनोध्येयपराक्रम! ॥ १७६ ॥ अस्माभिः कृतमीदृक्षं, निर्मितं तवयेदृशम् । ईदृग् लक्षणमेवाभू-दपकारोपकारयोः॥१७७॥ सुप्तोत्थितेव भूपाल-पुत्री चक्षुः क्षिपत्यथ । क्षेपीयो दिक्षु संक्षोभाद-क्षुण्णमगदद्वचः ॥ १७८ ॥ तात! तात! कथं लोको, मिलितश्चारकौकसि। कोऽयमेष कृतध्यानः, सावधानमनोऽम्बुजः।। १७९ ।। अथाभ्यधान्महीपालो, जातं तेऽङ्गमपाटवम् । अनेन ध्यानिनोल्लाघ, विदधे मत्रवैभवात् ॥ १८० ॥ अथ राजा निजावासे, गृहीत्वा घनवाहनम् । शुभ मुहूर्ते संवृत्ते पर्यणाययदङ्गजाम् ॥ १८१ ।। ___ इतः श्रेष्ठी धनो नाम, पद्मामादाय समतः ।अर्पयामास मेघस्य, पुण्यलक्ष्मीमिवाङ्गिनीम् ॥ १८२ ॥ अथ तस्य कृतज्ञोऽसौ, प्रसादं विदधे बुधः । नृपदत्तश्च राज्यार्द्धम् , बुभुजे च यथानयम् ॥ १८३ ।। देवभूयं गते राज्ञि, मत्रिभिर्नयपारगैः । राज्ये प्राज्ये गतव्याजे, विन्यस्तो मेघवाहनः॥ १८४ ॥ भुञ्जानस्य महीपीठं, मेघवाहनभृभुजः । निमेषा इव हर्षेण, प्रययुः प्रचुराः समाः ॥ १८५ ॥ ८० डे०। २ धात्री। ३ अतिशीघ्रम् । प्रथमः भवः मेघवाहनवृत्तान्तः ॥ ७ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy