________________
Shri Mahavir Jain Aradhana Kendra
•CXCXXX********OXXX
www.kobatirth.org
चौरोऽपि ध्यातवानित्थं श्रावकाः सत्यवादिनः । येऽसत्यवचनोच्चारे, प्रायश्चित्तं दधत्यमी ॥ ३३४॥ क्लीबत्वान्नैष शक्तोऽस्ति निःशङ्कः साधयाम्यहम् । नहि सन्देहदिग्धानां सम्पद्येत समीहितम् ॥३३५॥ ध्यात्वेति तस्करः प्राह देहि विद्यां वणिग्वर ! । अथ स्मित्वावदद्धर्म्मः, किमिदं भाष्यते वचः ||३३६ || महाकृच्छ्रेण मित्राद - प्यवाप्तेयं विचक्षण ! । अस्या लाभे परं कार्य श्रावकत्वं यथोदितम् ॥ ३३७ ॥ धर्मदेव ! समाख्याहि, श्रावकत्वं यथाविधि । ततः सोऽप्युक्तवान् धर्मं, श्रावकाणां सविस्तरम् ॥ ३३८ ॥ धर्मदेव ! मया धर्मः, प्रपन्नः परमार्हतः । इदानीं देहि मे विद्या - मनवद्यां यशस्करीम् ॥ ३३९ ॥ धर्मदेवोऽभ्यधादेवं, न ते विद्यां प्रदाम्यहम् । याहि याहि निजं स्थानं, कुरु कार्य यथोचितम् ||३४०|| अथाsकृपः कृपाणीं स्वाऽऽमाकृष्यामुमवोचत । पातयिष्ये शिरस्तते, फलमानं तरोखि ॥ ३४१ ॥ यदि यच्छसि मे प्रीतस्ततो रत्नकरण्डिकाम् । एनां तुभ्यं प्रदास्यामि, गुरवे दक्षिणोपमाम् ||३४२॥ भीतभीतस्ततो विद्या - मेतस्मै प्रददौ स्वयम् । बन्दीकृता हि यच्छन्ति, सर्वस्वमपि सञ्चितम् || ३४३|| चौरोऽप्यस्यार्पयामास, प्रीत्या रलकरण्डिकाम् । विद्या स्याद्विनयाद्वित्तात्, प्रतिविद्योदितैरपि ॥ ३४४॥ विद्यासिद्धौ हि सन्देहो, निःसन्देहमिदं धनम् । ध्यात्वेति तां समादाय, तुतोषाऽतुच्छहर्षभाक् ॥ ३४५॥ निःसन्देहमनाचौरो, द्रुममारुह्य शिक्यके । अष्टोत्तरशतं विद्यां जपित्वा साहसोत्कटः || ३४६ ॥ समं शिक्यकपादांस्तान् च्छन्नवान्नवविक्रमी । सद्योऽस्य विद्यासिद्धस्य, विमानं समजन्यथ ॥ ३४७॥ विद्यासिद्धो विमानेन, विहायस्तलमासदत् । अगान्नन्दीश्वरद्वीपं शाश्वतान्नमस्यया ॥ ३४८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
raat aar
विचिकित्सायां धर्मदेवकथानकम्