SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि षष्ठः सर्गः A चरितम् ॥११५॥ KOXOXOXOXOXOXOXOXO आद्योऽभूद्धवनानन्दो, नामतस्तनयः सुधीः। करिसिंहः परः सूनुः, सूता च जयसुन्दरी ॥२६॥ विन्यस्य भुवनानन्दे, राज्यं राजा महाबलः । परिपाल्य व्रतं श्राद्धं, सौधर्मे त्रिदशोजनि ॥२६॥ सम्यक् चम्पकमालापि, सम्यग्दर्शनमद्धतम् । परिपाल्य गता देव-भूयं तस्माच्च निवृतिम् ॥२६५॥ जिनसमयजलनिधिसुधा-कार्मणमहत्पदस्य निर्मूलम् । व्रतनृपतिसार्वभौमः, स्यात् सम्यक्त्वं महारत्नम् ।।२६६॥ लक्षणमिव सन्नाम, व्योमेव व्यापकं महत्त्वेन । अरकेषु द्वादशसु, प्रकटं दर्शनमिदं जयति ॥२६७॥ यथा क्षीराऽम्भोधिनिखिलजलराशौ क्षितितले, यथा हंसः पक्षी शकुनिषु यथेन्दुर्ग्रहगणे । यथा श्रीदेवीषु त्रिदशशिखरी चाद्रिपु यथा, तथा सारं सारं जिनपतिमते दर्शनमिदम् ॥ २६८॥ यथा तथा महीपाल-पालितं दर्शनं परम् । तथाऽन्यैरपि कर्तव्यं, लोकद्वयसुखावहम् ।। २६९ ॥ शङ्कया दृष्यते सम्य -ग्दर्शनं मोक्षदर्शनम् । चित्रं लुठति मष्येव, स्वैरिण्येव महाकुलम् ॥ २७० ॥ यथा निमितं जन्म, धनपालेन शङ्कया । दृष्यं नहि तथा सम्य - ग्दर्शनं सर्वपावनम् ॥ २७१ ।। तथा हिपुरे क्षितिप्रतिष्ठाऽऽख्ये, धनो नाम धनी वणिक् । धनश्री प्रेयसी तस्य धनपालः सुतस्तयोः ॥२७२॥ अमुष्य बालभावेऽपि, सञ्जज्ञे जननीमृतिः। महदुःखनिदानं हि, बालानां जननीमृतिः ॥२७॥ शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्याऽऽत्मजनाशश्च, दुःखमेभ्यः परं नहि ॥२७४॥ धनपालममुं बालं, धनो वीक्ष्य व्यचिन्तयत् । पूतरः कुञ्जरीकर्तु, कथं शक्यः स्त्रियं विना ॥२७५।। नवमो भवः जिनदेशनायां शङ्कादोषे धनपालदृष्टान्तः ॥११५॥ * * For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy