SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपजीविकेषु विमुखाः सुजना, न भवन्ति दुर्विनीतेषु । वत्सव्यथितेऽप्यूधसि, सुरभिनोत्कुमयति क्षीरम् ॥२४८॥ एवमुक्तवती देवी, खाऽपराधप्रकाशिनीम् । तुतोषाऽभयदानेन, विशालेशतनूद्भवा ॥ २४९ ॥ राजाऽपि निजगादेवं, कलङ्कः क्व नु मे भवेत् । रेणुश्चन्द्रं प्रति क्षिप्तः, क्षेप्तारमवगृहति ॥२५०॥ जिनशासनमाहात्म्यात् , व ते मालिन्यसम्भवः। विवाहादपि ज्ञानेन, विरहः कथितस्त्वया ॥२५१॥ इतो नभसि दध्वान, दुन्दुभिर्मङ्गलाऽग्रणीः । तस्याः कण्ठेऽपतन्माला, लपन्तीवालिनिःस्वनैः ॥२५२॥ इदमप्यद्भुतं वीक्ष्य, चक्षुषा सुलसा भयात् । ननाम चम्पकां देवीं, भयाऽऽर्ताः परमादराः॥२५३॥ प्राणभिक्षां प्रदेहि त्व-महिंसावततत्परे! । त्वत्प्रभावादिमे देवाः, सेवाहेवाकिनो बभुः ॥ २५४ ॥ कथङ्कारमहं पारं, प्रामोमि भववारिधेः। विना प्रसादपोतं ते, शुभकाष्ठाप्रतिष्ठितम् ॥ २५५ ॥ तब प्रसादतो मेऽस्तु, जिनधर्मः कृपाऽऽत्मकः । वैराक्रमागतः स्नेहः, शतशाखः प्रवर्द्धते ॥ २५६ ॥ विद्यासामर्थ्यतो राज्ञो, दर्शितोऽन्यो मया नरः । प्रवादश्च कृतश्चापि, मूढया धनवाञ्छया ॥२५७॥ यदि मां हन्ति भूमीशो, बद्ध्वा बद्ध्वा चतुष्पथे। तथाऽप्यमुष्य पापस्य, प्रायश्चित्तं भवेन्न मे ॥२५८॥ ब्रुवाणां सुलसामेवं, चम्पकोवाच मञ्जुलम् । न त्वया मे कृतं किश्चिद् , कृतं पूर्वोत्थकर्मणा ॥२५९।। एवं चम्पकमालोक्तं, वचः श्रुत्वाऽभ्यधुर्जनाः । विज्ञातजिनतत्त्वाया- अस्या एता सुधोर्मयः ॥२६॥ अथाऽभिनन्द्यमानासौ, वन्द्यमाना पदे पदे । अगादन्तःपुरं देवी, दत्वहस्ता महीभुजा ॥ २६१ ॥ प्रतिग्राम प्रतिपुरं, प्रतिदिशं नृपप्रिया । कारयन्ती जिनाऽऽगारं, सुतयुग्ममसूत सा ॥ २६२ ॥ नमो भवः जिनदेशनायो सम्यक्त्वोपरि चम्पकमालाकथा श्रीमु०२० For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy