________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥११४॥
कृतस्नाना जिनाधीश-मभ्यर्च्य विधिपूर्वकम् । परिधाय सिते वस्त्रे, तन्नृपाऽऽस्थानमभ्यगात् ॥२३४॥ दुर्लभदेविका मुख्या, अन्तःपुर्यो दिदृक्षया । नेपथ्याऽन्तरिताः, तस्थु-विसंस्थुलमनस्तलाः ॥२३५॥ अथ प्रज्वलितो वहि-ज्वालाजालभयङ्करः । तापितं तेन तत्तैलं, यत्कटाहोदरस्थितम् ॥ २३६ ॥ यथा यथा ज्वलत्यग्नि-स्तैलं शब्दायते यथा । मनांस्यपि विपक्षाणां, दहतीव तथा तथा ॥ २३७॥ धर्माधिकरणाऽऽधीशैः, प्रक्षिप्तस्तप्तमापकः । प्रलयाऽनलकीलाभो, भवेत् स्नेहगतोऽप्यलम् ॥२३८॥ इतश्चम्पकमालाऽथ, विस्मेराऽऽननशालिनी । उवाचेति मृदुध्वानं, संयोज्य करकुङ्मलम् ॥२३९॥ मनोवचनकायैश्च, खमान्तेऽपि परो नरः । ध्यातः स्मृतश्च चेवढे', दह्या मे करकुमलम् ॥२४०॥ कर्मणा मनसा वाचा, हास्येनापि परः पुमान् । विधृतो दीक्षितश्चाऽस्ति, दह्या मे करकुमलम् ॥२४१॥ एवमुक्तवती याव-द्देवी चम्पकमालिका । तावत्स्वचेष्टितं वीक्ष्या-चके दुर्लभदेविका ॥२४२॥ सुलसाचेष्टितं सर्व-मत्कृतं भविता स्फुटम् । गुह्यं न सहते प्रायः, सर्वदा क्षोणिमण्डलम् ॥२४३॥ अस्याः शापप्रदानेन, भाविनी भस्मसादहम् । सती प्रकोपिता यस्मा-देशभङ्गाय जायते ॥ २४४॥ ध्यात्वेति दुर्लभा देवी प्रणम्य प्रणयान्वितम् । देवी चम्पकमालाच, विजिज्ञपदिदं वचः ॥२४५॥ ममाऽभ्यर्थननूर्णायाः, सुलसाया विजृम्भितम् । देवि! जानीहि ते क्वापि, कलङ्कः किल विद्यते? ॥२४६॥ देहि प्रष्ठेऽभयकर, सतीजन्ममतल्लिके! । विनम्र सव्यलीके च, महात्मानः कृपापराः ॥२४७॥
KKRIXXOXO
| नवमो भवः
जिनदेशनायां | सम्यक्त्वोपरि चम्पकमालाकथा
॥११४॥
यत:
For Private and Personal Use Only