SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमृश्येति धनः श्रेष्ठी, धनदानाद्धनश्रियम् । उपायंस्त प्रशस्ताऽङ्गी, गृहिणी गृहमीरितम् ॥२७६।। यतः-न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहन्तु गृहिणीहीन-मरण्यसदृशं मतम् ।। २७७ ॥ ततः सूतमसूतैषा, विषयारम्भिकं फलम् । सपत्नीसंभवं पुत्रं, निजपुत्रमिवैक्षत ॥ २७८ ॥ पठितुं ज्ञानशालाया-मिमी यान्तौ महामुदा। पयः समरिचं पुष्टेः, प्रगे साऽपाययत्तराम् ।। २७९ ॥ तत्पुत्रो धनदेवस्तु, निःशकं पिबति प्रगे । पयःपानं विना पाठः, कथं शक्येत पाठकैः ? ॥२८॥ पयः समरिचं दृष्ट्वा, समाक्षिकं विरेकया । धनपालः पपौ दुग्धं, विमात्राऽऽशङ्कया सदा ॥२८१॥ विमातेयं कथं मे स्यात् , सर्वथा हितकारिणी । एवं दुश्चिन्तनादेष, क्षीयते स्म दिने दिने ॥ २८२ ॥ तस्यास्ताडनभीतोऽसौ, धनपालः पयोऽपिबत् । अस्याऽभूद्वल्गुलीवातो, जीवितव्यद्रुघातकः ॥२८३॥ वैद्यानां दर्शितः सोऽय, धनेन धनदायिना । न साध्यमूचे दुातं, मतिः कर्माऽनुसारिणी ॥२८४॥ क्षताङ्गः प्राप पञ्चत्व-मेष वल्गुजवायुना । शङ्कयाऽऽरेकया किन्न, भवेद्भवभृतां किल ।। २८५ ॥ निःशूकं धनदेवोऽथ, पिबन् दुग्धमनारतम् । अधीती क्रमशो गेहा-ऽधिपती राजते स्म सः ॥२८६॥ इहलोकसुखादेष, शङ्कया निरमुच्यत । निवृत्तेर्जनकात्तद्वत् , सम्यक्त्वात्तत्त्वसेवधिः ।। २८७ ।। कासया सर्वधर्माणां, दूष्यते हन्त दर्शनम् । जितशत्रुर्महीपाल - दृष्टान्तोत्र निशाम्यते ॥ २८८ ॥ (तथा हि-)पुरे क्षितिप्रतिष्ठाऽऽख्ये, जितशत्रुर्महीपतिः। सुबुद्धिासचिवस्तस्य, बुद्धिरत्नमहोदधिः।।२८९॥ अमुष्याऽन्येचुर्वायु-विजिनोर्वाजिनोईयम् । छन्नवृत्त्याऽरिभूपालैः, प्रेषितं प्राभृतीकृतम् ।। २९० ।। नवमो भवः | जिनदेशनायां शहादोष धनपालदृष्टान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy