SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यात्वेति मानसे प्रीत्या, विभाते सुलसौकसः । अगाच्चम्पकमालायाः, प्रासादं साऽऽदराशया ॥१९१॥ देवीं विज्ञपय द्वास्थे !, सुलसा त्वां दिदृक्षते । दध्यौ देवीति सम्यक्त्वे, किं मालिन्यकृतयाऽमुया ? ॥ १९२॥ वारंवारं निषिद्धाऽपि, सुलसाऽगात्तदन्तिके । न्यपीदद्विहिताशीच लिङ्गिनामीदृशी स्थितिः ॥ १९३॥ चम्पके ! नास्ति ते पुत्रो, मनोरथकथाऽधिपः । तं विना राज्यसौख्यानि, निःशेषाणि न किञ्चन । ॥ १९४ ॥ गृहाण मूलिकामेनां पुत्रसन्ततिकारिणीम् । कालीदेव्याः सपर्याञ्च कुरु भक्त्या महीयसीम् ॥ १९५ ॥ श्रुत्वेति चम्पका वादीत्, सुलसे ! धूर्त पत्न्यसि । आर्हती परया भक्त्या - ऽन्यपूजां किं करोम्यहम् ॥ १९६ ॥ न देवीपूजया पुत्राः, न मूलीग्रहणादपि । भवितारो भवन्त्येवं, मरौ कल्पद्रुमा इव ॥ १९७॥ चेद्रक्षाकण्डकैः पुत्राः, जायन्ते हरिणीदृशाम् । वन्ध्या भवेयुः का नाम ?, वन्ध्याशब्दो हि निष्फलः १९८ एवं निर्भसिता देव्या, दशन्ती त्वधरच्छदम् । कोपेन कम्पमानाङ्गी, सुलसाऽगान्निजं गृहम् ॥ १९९॥ विद्यामाहात्म्यवत्येषा, निशायां वासवेश्मनि । गते भूमिपतौ प्रीत्या, नृरूपं विचकार च ॥ २०० ॥ तं दृष्ट्वा कुपितो राजा, कृतभृकुटिभीषणः । तिरश्चोपक्षमन्ते हि नाऽपरः किमु तादृशम् १ ॥ २०९ ॥ यावत्खङ्गपरो भूत्वा, पल्यङ्कादुत्थितो नृपः । तावददर्शनी जातो, हन्त विद्याबलं महत् ॥ वरं मृत्युर्वरं बन्धो वरं दारिद्र्यविद्रवः । न पुनः शीलमालिन्य- दुष्टरामाऽङ्गसङ्गमः ॥ विज्ञातजिनतच्चापि यदेषा विषयाऽऽतुरा । सुधा विषायते नित्यं जलं तु ज्वलनायते ॥ मारयामि कथञ्चैनां धर्मदातृत्वतो गुरुः । परन्तु सङ्गमः कार्यो, नाऽमुष्या विषयातुरैः ॥ २०२ ॥ २०३ ॥ २०४ ॥ २०५ ॥ For Private and Personal Use Only नवमो भवः जिनदेशनाथ सम्यक्त्वोपरि चम्पकमालाकथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy