________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः सर्ग:
श्रीमुनिसुव्रतखामि
चरितम् । ॥११२॥
*
*
*
*
अथोवाचाऽमरो देवि !, पुराऽपि त्वं गुरुर्मम । मयाग्रेऽप्यर्हतो धर्मों, विज्ञातस्त्वत्प्रसादतः ॥ १७६ ॥ इदानी परलोकस्य, साधनं मे निगद्यताम् । परोपकारतल्लीनाः, प्रायते के न सजनाः?॥ १७७॥ साऽप्युवाच शते साढ़े, योजनानां मनोहरम् । पुरमस्ति पुराणाऽऽख्यं, नूतनं वास्तुविस्तरैः ॥१७८॥ तत्राऽस्ति केवली सिद्धः, सिद्धान्त इव विश्रुतः। तस्य पार्श्वे व्रतं प्राप्य, याताऽसि परमां गतिम् ॥१७९॥ श्रुत्वेति नृपमाऽपृच्छथ, दवा दानानि सर्वतः । ज्यायांसं नन्दनं न्यस्य, गृहमारेऽथ धुर्यवत् ॥१८॥ नत्वा गुरुमिव क्षमाप-पत्नीं सम्पन्नवासनः । पुरं प्राप पुराणाऽऽख्य-मपुराणसुखाऽऽशया ॥१८॥युग्मम्।। ततः प्राप्य व्रतं शुद्धं, तपस्तत्वा सुदुष्करम् । सर्वकर्मक्षयादाप - दमरः परमं पदम् ॥ १८२ ।। (इतश्च-) दुर्लभोपपदा देवी, भूपतेः पूर्ववल्लभा । तुतोष सुलसां दान-ररुणाम्बरधारिणीम् ॥१८३॥ साऽप्यूचे तनये ! किं ते, कार्यमस्ति सुदुष्करम् । येनाऽहं पूरयाम्यद्य, रञ्जिता दानकर्मणि ॥१८४॥ उवाच दुर्लभा देवी, नृपश्चम्पकमालया । रञ्जितो मां न नेत्राभ्यां, वीक्षते दुर्भगामिव ॥१८५॥ तथा तपोधनेऽमुष्याः, कलङ्कः कोऽपि दाप्यताम् । येन मां पूर्ववत्प्रीत्या, विधत्ते वल्लभां भृशम् ॥१८६॥ साऽप्युवाचाऽहते धर्मे, लीना चम्पकमालिका । कलङ्कः शक्यते दातुं, न तस्या दूषणं विना ॥१८७॥ अतो भगवति ! प्राज्यैः, सद्दानैरसि तोषिता । सुदुष्करक्रियाकाण्डे, प्रचण्डाऽसि प्रसीद मे ॥ १८८ ॥ सुलसा सहसा दध्यौ, नूनं तस्याः समस्ति किम् ? । सम्पादनप्रयोगेण, तां प्रयामि प्रगे प्रसुम् ॥१८९॥ हुँ ! त्वमुष्याः सुतो नास्ति, तदुपायप्रसादनात् । गता किञ्चिच्छलं प्राप्य, कर्वी कार्य समीहितम् ॥१९॥
*
| नवमो भक जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला
कया
*
*
*
॥११२॥
*
*
For Private and Personal Use Only