SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भवा तस्माद्विचार्य सहुद्धे !, धमों ग्राह्यः सनातनः। समस्तानां पुमर्थाना-माधारोऽसौ निगद्यते ॥ १६१॥ यतः-धर्मादर्थोऽर्थतः कामः, कामात्सुखफलोदयः । अतिरिक्तः परं मोक्ष-स्तेभ्यः सर्वज्ञभाषितः ॥१६२॥ सारं धर्मस्य जानीत, जीवरक्षाऽऽदिमं व्रतम् । तदभावे मुधा सर्व, विना चक्षुर्यथा तनुः ॥१६३ ॥ धृतिरनिर्मनः कुण्डं, सन्तोषः समिधाञ्चयः। यत्रेन्द्रियं पशुगण- एष यज्ञः सनातनः ॥ १६४ ॥ एवं युक्तिभिरुवीशः, पुरोधा प्रतिबोधितौ । प्राप्तवन्तौ च तीर्थेश - धर्म सम्यक्त्वभासुरम् ॥१६५ ॥ एकोऽपि हायनो राज्ञः, कल्प-कल्पः प्रगल्भितः । तदन्ते ललिताङ्गेन, कारितं पाणिपीडनम् ॥१६६॥ भुञ्जानः पञ्चधा भोगां-स्तया सह रसेश्वरः । ससौख्यमन्वतिष्ठच्च, शच्येव हरिवाहनः ।। १६७॥ अन्वेधुरमरः स्वमे, आत्मानं विगताम्बरम् । लुलायपृष्ठमारूढं, प्रौढकृष्णविलेपनम् ॥ १६८॥ ताड्यमानं नदीतीरे, मार्यमाणं कशाऽऽदिभिः। आहूयमानं कृष्णाझ्या, विभाते दृष्टवानसौ ॥ १६९ ।।युग्मम्।। तद्भयादिव निर्निद्रः, स्मृतपञ्चनमस्कृतिः । स्वप्नार्थमथ सस्मार, निरपस्मारमानसः ॥ १७० ।। स्वमार्थ न शुभं वेभि, ततः सजो भवाम्यहम् । तत्वार्थसाधने देवीं, दृष्ट्वा स्वमार्थवेदिनीम् ॥ १७१ ॥ ध्यात्वेति स शुचीभूय, पूजयित्वा जिनेश्वरम् । सभां गत्वा जजल्पाऽद्य, स्वप्नं प्रातर्महीभुजः॥ १७२ ।। राजाऽप्युवाच स्वमार्थ-मपृष्टाऽपि मम प्रिया । गदिष्यति ततः सर्व, यथोचित्यं विधीयताम् ।। १७३ ॥ उभावप्यागतौ देव्याः, समीपे पीतवाससौ । समाख्यञ्चम्पकमाला, खमार्थ दृष्टिदृष्टवत् ॥ १७४॥ आयुर्मासा दश तव, विद्यते द्यौविधायकम् । साधयस्व परं लोकं जिनधर्मप्रसङ्गन्तः ॥ १७५ ॥ जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy