________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पषष्ठः सर्गः
श्रीमुनिसुव्रतखामिचरितम्
॥१११॥
लत्तापातादिनिर्मुक्तं, हर्पकृत् हर्पणान्वितम् । रविऋशबलोपेत - मस्ति लग्नं सुशोभनम् ॥ १४७॥
॥ युग्मम् ॥ सुलग्नपत्रिकां धात्री-धवः पात्रीचकार ताम् । ललितप्रार्थितो राजा, जगाम स्नानमन्दिरम् ॥ १४८ ॥ नानीयवसनो राजा, स्नातो भृङ्गारवारिणा । मुक्तश्च भोज्यशालायां, नानाभोज्यमनोहृतौ ॥ १४९ ॥ सन्मानितः कुणालेशः, प्राभृतैर्युतिसम्भृतैः । उवाच प्रेष्यतामेषा, मया साकं कुमारिका ।। १५० ॥ यदि मे परमा भक्तिर्यदि मे परमं मनः । प्रेषयाऽऽत्मसुतां तवं, मया साकं गुणानध!॥ १५१ ॥ ओमित्युक्त्वा विशालेश-श्चम्पकां सपरिच्छदाम् । सुदिने प्रेषयामास, वैरिकेशरिणा सह ॥१५२ ॥ ततः कुणालानगरी, तस्याः प्रासादमर्पयत् । तत्र स्थिता दृशोर्दत्ते, पूर्णिमासीव संमदम् ॥ १५३ ॥ मध्याऽढे भूपतिः साकं, गुरुणा गौरवान्वितम् । समेत्य चम्पका विद्व- गोष्टीवैशिष्ट्यमन्वभूत् ॥१५॥ ऊचे राजा कुरङ्गाक्षि !, यत्नः कार्यः कलागृहे । इन्दुः क्षीणोऽपि कालेन कलाभिरभिवर्द्धते ॥१५५॥ ऊचे चम्पकमालाऽथ, न प्रमाणं कला क्वचित् । निवृत्तेः कारणं पुंसां, धर्मस्यैव कला यतः ॥ १५६ ॥ ऊचे राजगुरुधर्म-विचारो युज्यते नहि । कुलक्रमागतः कार्यो, दानयज्ञादिबन्धुरः॥१५७॥ (यतः-) दुःशीला चेद्भवेन्माता, तद्विचारः क्रियेत किम् ? । वैद्यौषधोपदेशः किं, विचार्यःशुद्धबुद्धिना? ॥१५८॥ अथोवाच सरोजाक्षी, विहस्य मधुरखरा । कुलक्रमागतं सेव्यं, दारिद्यं किं न सेव्यते ? ।। १५९ ॥ दुःशीला यदि माता स्यात् , पूज्यते तनयैस्तु ते । मूर्धाधिरूढः किं रेणु-र्न पात्येताऽञ्चलैश्चलैः ॥१६०॥
XXXXXXX
नवमो भवः जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला
कथा
॥१११॥
For Private and Personal Use Only