SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir षष्ठः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥११३॥ VR * विमृश्येति चिरं राजा, तदङ्गस्पर्शमत्यजत् । नृरूपं प्रत्यहं पश्यन्ना-ऽऽप्यागाद्वासवेश्मनि ॥ २०६ ॥ घनवृष्ट्याकौमुम्भ-गलद्रागमिव प्रियम् । वीक्ष्य ज्ञातवती प्रश्नात् , सुलसाचेष्टितं हृदि ॥ २०७॥ भोगान्तरायो मे कर्मा-ऽशर्मकृत्समुपस्थितम् । विवाहादपि यत्पूर्व, विज्ञातं ज्येष्ठबन्धुवत् ॥ २०८॥ खयमेव कृतं कर्म, स्वयं भोक्ता यथा तथा । न कोऽपि सुखकल्लोके, दुःखकृन्नाऽपि तत्वतः ॥२०९॥ विषान्नानीव विषयान् , दधती नृपतिप्रिया । विशेषात् पौषधं चक्रे, शुभध्यानेन पर्वसु ॥ २१ ॥ प्रथमाना प्रबोधेन, पुरातनमुनेः कथा । खिद्यते कर्मणे स्वस्मै, भावयन्ती सुभावनाम् ॥ २११ ॥ त्रिधा पूजां जिनेन्द्रस्य, कुर्वती परमाईती । सुलसोपकृतं देव्य - नुमेने परमं गुणम् ॥ २१२ ॥ युग्मम् ॥ अथोबाचाऽन्यदा देवी, धर्माधीनां महल्लिका । कथं त्वयि महीपालो, नीराग इब लक्ष्यते ? ॥२१३।। स्मित्वोवाच प्रिया राज्ञः, पृच्छसे कर्म निर्मितम् । नानारूपैर्यतो जीवो, दयते भवनाटके ॥ २१४ ॥ साऽप्युवाच कुरङ्गाक्षि!, वैराग्य कारणं शृणु । तवाऽऽयाति रताऽऽगारे, कोऽपि विद्याधरो नरः ॥२१५।। श्रुत्वेति चम्पका दध्यौ, प्रवादोजनि मे कथम् । लोके हास्यकरः कामं, दुर्घटं घटते विधिः ॥२१६।। ज्ञातं चूडामणेलोंके, कृतः सुलसया मम । प्रवादो धनवाञ्छाभिः, किं न कुर्वन्ति लोभिनः ॥२१७॥ तथा कथं यतिष्येऽहं यथोत्तममनांस्यपि । भवन्ति कीर्तिकान्तानि, कीर्तिरेवाऽविनश्वरी ॥ २१८ ।। प्रत्यक्षं वीक्ष्यते पुंसा, कोपो भृपस्य सांप्रतम् । अनुमाने परोक्षे वा, मीमांसा हि महात्मनाम् ॥२१९।।। अस्मिन्नकीर्तिपटहे, ताब्यमाने जगत्यपि । लञ्जते जिनधर्मोऽयं, सुकरं धर्मदृषणम् ॥ २२० ॥ नवमो भवः जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला ॥११३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy