SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनिसुबतखामि चरितम् १११०॥ ललिताङ्ग उवाचाऽथ, सम्प्राप्तो दुर्ग एव सः। कियत्पल्लीपतेर्धाम, चलतो विग्रहे मम ॥ ११७ ॥ अथ सन्मानितो राज्ञा, गतो राजगुरुः पुरात् । गुणैश्चम्पकमालाया, बद्धो दृढतमैरिव ॥ ११८॥ कृतस्वस्तिवचो राजा, गुरुः खोचितविष्टरे। निविष्टः कथयामास, विशालामगमं पुरीम् ॥ ११९ ॥ मण्डलेशेन विदधे, तेन मेऽपचितिभृशम् । राजप्रसादपात्रं हि, सर्वत्र किल पूज्यते ॥ १२०॥ परं दृशोः फलं प्राप्तं, यदृष्टा तत्तनूद्भवा । भाग्यसौभाग्यसंस्त्याय, जगन्नयनकार्मणम् ॥ १२१ ॥ सभाग्यं देव ! सौभाग्यं, वाणी पीयूषपोषिणी । निःसामान्या गुणा यस्याः, मतिस्तत्त्वगतिः खलु ॥१२२॥ चूडामणिषु कौशल्यं, वर्ततेऽस्या जगत्रये । ततः सविस्मयो राजा, जज्ञे ग्राम्यजनोपमः।। १२३ ॥ ततो राजगुरुः सर्व, यथाश्रुतमुवाच तत् । गुणी गुणिषु रागी स्था-सूरो रक्ताम्बुजेष्विव ॥ १२४ ॥ यदि पुण्यप्रबन्धेन, सम्बन्धो भवतो भवेत् । पुरुषार्थस्तृतीयोऽपि, सर्वेषां प्रथमः किल ॥ १२५ ॥ पलायितं विचारेण, राज्ञ उत्कण्ठयोदितम् । नर्तितश्च प्रमोदेन, सज्जितं पुष्पधन्विना ॥ १२६ ॥ व्याजहार गुरुं राजा, मदर्थे याचिता नु किम् ? | अनूढा प्रौढयत्कन्या, सर्वसाधारणी भुवि ॥१२७॥ मा भूरुत्कः क्षमापाल!, त्वमेव भविता पतिः। वर्षान्तेऽदस्तयाऽभाणि, ग्राव्णि रेखेव तद्वचः॥१२८॥ अथोवाच कुणालेशः, कल्पान्त इव हायनः । यास्यामि जीवितस्यान्तं, न तस्यान्तमहं गुरो! ॥१२९॥ तदीक्षणतृषार्ते मे, लोचने चारुलोचन!। अलमन्यद्विचारेण, बाधते मां मनोभुवः ॥ १३० ॥ स्थगीधरोऽप्यहं भूत्वा, त्वया सह पुरीं गतः । चम्पकमालां द्रक्ष्यामि, ततो मे जीवितं गुरो! ॥१३॥ नवमो भक जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला कथा ॥११०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy