SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XXXX*** X 1010 www.kobatirth.org ॥ अथ चूडामणेरथं, नारीचूडामणिश्विरम् । विभाव्याह नृपाऽऽदेशा - द्यदा त्वं चलितः पुरात् तदा त्वामनुसम्प्राप्तस्तत्र सूनुरनूनधीः । त्वया निर्भत्सितः प्राप, कुणालां मातृसन्निधौ तत्रास्थाहिवसानेप, कतिचित्खेलनैरलम् | जग्राह तरवारिं ते, निषिद्धस्तव जायया ॥ अपमानमिति खाते, विभ्रत्प्रकृतिरोपणः । निर्गत्य पुरतो वाप्या- मदाज्झम्यां मदान्मृतिः ॥ वापीपङ्कनिमग्नोऽसौ, नेक्षितो वीक्षणादपि । ततः कुरङ्गकः प्रैपि, तत्र वार्तानिवेदकः || सोऽस्ति राजसभाद्वारे, स्थितः स्थाणुरिव स्थिरः । आहूयतामसौ सम्यग् वचसि प्रत्ययोऽस्ति मे || १०७॥ इति श्रुत्वा वचोऽमुष्याः, सर्वज्ञोदीरितोपमम् । आजूहवदमुं राजा, सर्वोऽपि ज्ञानकौतुकी ॥ १०८ ॥ सभामेत्य कुरङ्गोऽथ, नृपं नत्वाऽमरं गुरुम् । कुमारिकोदितं सर्वं यथातथमुवाच सः ॥ उवाचाऽथाऽमरो राजन्!, सर्वज्ञीभूतशेमुषी । युष्मद्रुहेऽवतीर्णेयं, कौतुकादिव भारती ॥ कुमुदेन्दुस्ततो राज्ञा, हेमदानेन भूयसा । सुमेरुकूटप्रतिम चक्रे विद्यादरिद्रहृत् ॥ हेमलक्षानुमानं स दत्तवान् शासनं नृपः । प्रभूतं प्रददे लोकैर्वस्त्रादि कुमुदेन्दवे ।। ततः कुमारी भूपाल - मानम्य कुमुदेन्दुना । अगादध्ययनाऽगारं भूयः पठनकर्मठा ॥ ११३ ॥ ललिताङ्ग उवाचाऽथ, भूमिनाथेन माममुम् । हेतुना प्रेषितः केन, वदावद ! निवेद्यताम् ॥ ११४ ॥ अथाऽमरगुरुः प्राह देव ! कालिञ्जरो गिरिः । जगृहे दम्भसज्ञेन, पल्लीशेनेति चिन्त्यताम् ॥ ११५ ॥ स गृह्यतां त्वया तत्र, मुच्यतां भवता वलम् । इत्यादेशः प्रदत्तोऽस्ति कुणालाखामिना तव ॥ ११६॥ १०९ ॥ ११० ॥ १११ ॥ ११२ ॥ For Private and Personal Use Only १०२ ॥ १०३ ॥ १०४ ॥ १०५ ॥ १०६ ॥ ॥ Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy