SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि-* पष्ठः सर्गः चरितम् ॥१०९॥ XOXOXOXOXOXOXOXOXOXOXox उत्सङ्गे न्यस्तवानेना, नृपः प्रीतितरङ्गिताम् । अस्याऽपत्याऽङ्गशैत्येन, न रुचिश्चन्दनेजनि ॥ ८७ ।। इतः कुणाला भूपाला-रिकेशरिनिदेशतः । तत्राऽमरगुरुः प्राप्तो, गुणी राजगुरुः कृती ।। ८८ ॥ उचितप्रतिपल्याऽसौ, निषसादोपभूपतिम् । द्वयोः कुशलवार्ताऽऽदि-प्रश्नो जज्ञे परस्परम् ॥ ८९ ॥ इमां रूपवतीं दृष्ट्वा, रतेरपि ह्रियः पदम् । मद्भर्तुः प्रेयसी योग्या, योग्या कुसुमधन्विनः ।। ९० ॥ इति दध्यौ गुरुश्चित्ते, विस्मयस्मेरमानसः । अनयोः सङ्गमः श्लाघ्यो, गङ्गासागरयोरिव ॥ ९१ ।। अथ पप्रच्छ भूपालः, सुते ! किं पठितं त्वया? । मूलादारभ्य वाल्लभ्य-चिन्तारत्नकरण्डके ! ॥ ९२ ॥ निवेदय तरां साथ, स्त्रीत्वादूचे न किश्चन । प्रायः सभासु भीरूणां, विधत्ते जडतां मतिः ।।९३॥ इतोऽभ्यधायि साऽऽनन्द, कुमुदेन नरेश्वरः । अपाठि सर्व वैशिष्य -मस्याश्रूडामणौ पुनः॥ ९४ ॥ निशम्येत्यमरः प्राह, सहास्यं तब क्व गतिः? । भविता रमणः कस्ते ? किं नाम ? कति सूनवः ॥ ९५ ॥ सलजाधोमुखीभूता, प्रातः कुमुदिनीयिता । ततः कुमुद ऊचे तां, का ही प्रश्नप्ररूपणे ।। ९६ ॥ प्रश्नात्सोवाच वर्षाऽन्ते, वरो भाव्यरिकेशरी । रसेश्वरं वरं प्राप्य, विरहो द्वादशाब्दिकः ।। ९७ ।। षण्मासेनाधिकात्तस्मा - द्रज्यते स्वयमेव मे । ततः परं सुतद्वन्द्वं, भावि वेमीति सद्गुरो! ॥९८॥ अपृष्टमपि ते किश्चिद्वच्मि राजगुरो! पुरः । इतो दिनाद्दशमेह, मृतस्ते प्रथमः सुतः ॥ ९९ ॥ अस्यामेव तमखिन्यां, प्रेयसी तव नन्दनम् । अमूत लक्षणोपेतं, रत्नं वैडूर्यभूरिख ।। १०० ॥ अथाऽसौ शोकहर्षाभ्या-मभ्यपूर्यत सोमपः । पृष्टवानिति मत्सूनु-जीवितान्तं कथङ्गतः ।। १०१ ॥ जिनदेशनायां सम्यक्त्वोपरि चम्पकमालाकथा ॥१०९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy