SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FOXo PKOPAN नवमो भवः OKeXO-KO-XOXOXOXOXOXOKOKS द्वारं मूल प्रतिष्ठान -माधारो भाजनं निधिः । साधु-श्रावकयोहेतु-धर्मयोः शुद्धदर्शनम् ॥ ७२ ॥ गुणतो दोषतश्चैव, लक्षणैर्भेदतोऽपि च । पृथक् पञ्चविधं ज्ञेयं, सम्यक्त्वं दशधा त्रिधा ॥ ७३ ॥ स्थैर्य -प्रभावना-भक्ति,- पाण्डित्यं जिनशासने । तीर्थयात्राऽपि पश्चाऽस्य, गुणा निवृतिरङ्गिणः ॥७४॥ शङ्का कासा जुगुप्सा च, कुतीर्थिकपरिस्तवः । कुतीथिकोपसेवेति, दोषाः सम्यक्त्वनाशिनः॥ ७५॥ शम-संवेग-निर्वेदाः, तथा सचाऽनुकम्पिता । अस्तिबुद्धिः पदार्थेषु, दर्शनव्यक्तिलक्षणम् ॥ ७६ ॥ औपशम-सास्वाद -क्षायोपशमं च वेदकं क्षयजम् । सम्यक्त्वं विज्ञेयं पञ्च-विधं तत्समासेन ॥७७॥ नैसर्गिकमुपदेशिक - माज्ञारुचिस्सूत्रवीजभेदेन । अभिगमविस्ताररुची, क्रियासझेपधर्मरुचि ॥ ७८॥ जीवाऽजीवाऽऽश्रवा बन्धो, मोक्षः संवरनिर्जरे । एतानि सप्त तत्त्वानि, भाषितानि मनीषिभिः॥७९॥ सर्वदोपैर्विनिर्मुक्तं, गुणयुक्तं यथाविधि । इदं चम्पकमालेब, पालयेन्मुक्तिकारणम् ॥ ८॥ तथा हि भरतक्षेत्रे, विशालेति त्रिधा पुरी । ललिताङ्गनृपस्तत्र, तस्य प्रीतिमती प्रिया ॥ ८१॥ तयोरुपरिजातानां, सुतानामुग्रचेतसाम् । सुता चम्पकमालाऽभू-जयन्तीव दिवस्पतेः ॥ ८२॥ महोपाध्यायकुमुद-चन्द्राऽन्ते तन्द्रयोज्झिता । अधीतिनी सुता राज्ञः, शास्त्राणि ज्ञातवत्यसौ ।। ८३ ।। अतिप्रवीणा वीणासु, भारते भरतो मुनिः । दक्षा शिक्षासु साहित्ये, ससौहित्या नृपाऽऽत्मजा ॥ ८४ ॥ सतर्का तर्कशास्त्रेषु, लक्षणे लक्षिताऽऽशया । सस्मृतिः स्मृतिवाक्येषु, पट्वी नाटकपेटके ॥ ८५॥ उपाध्यायान्विताज्येधु-रास्थानीङ्गतवत्यसौ । ननाम भूपतेः पादौ, पादपीठाधिदेवते ॥८६॥ जिनदेशनाया सम्यक्त्वोपरि चम्पकमालाकया श्रीमु०१९ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy