________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥१०८॥
नवमो भवः
रे रे श्वेताम्बराऽऽचार्यः, शिक्षितोऽसीति जल्पता । पूजकेन ततस्तास्ता-थूर्णिताश्चरणद्वयात् ।। ५७ ॥ तद्वीक्ष्य सागरः कामं समभूत्करुणापरः । यतन्ते जीवरक्षायै, विज्ञातजिनशासनाः ।। ५८ ॥ अहिंसातत्परत्वेन, विलक्षीभूय सागरः । तच्छिक्षाऽर्थमुदैशिष्ट, तदाऽऽचार्यमुखं तदा ॥ ५९॥ उपेक्ष्यमाणे तस्मिंश्च, तत्पापं दृक्पथागतम् । सागरश्चिन्तयामास, धिगिमानिर्दयाऽशयान् ॥ ६ ॥ कथमेते गुरोर्बुद्ध्या, वन्द्यन्ते हन्त निघृणाः । कथमेभ्यो भवस्यान्त - लोहपातादिवाम्बुधेः॥ ६१ ॥ तैदृष्टं परमं ज्योति-स्तैस्तत्वमुपलक्षितम् । तैः कृता देवतापूजा, यैः कृता प्राणिनां दया ॥ ६२॥ विमृश्येत्युपरोधेन, तत्कृत्वा कर्म सागरः। अलब्धदर्शनो दान- शील - धर्मप्रसङ्गतः ॥ ६३ ॥ महारम्भार्जितद्रव्यैः, परिमित्या विवर्जितः । जात्यस्तवाऽयमश्वोऽभू-तद्वोधार्थमिहाऽऽगमम् ॥६४ ॥ भवान्तरकारितायाः, प्रतिमायाः प्रभावतः । श्रुत्वा स्म देशनामेषां सम्बुद्धो नरपुङ्गव ! ॥६५॥ एवं भगवताऽऽख्याते, केवलज्ञानभाखता । क्षामयित्वा क्षमाभळ, खैरचारी हयः कृतः॥ ६६ ।। पाणिसम्पुटमायोज्य जितशत्रुर्महीपतिः । इत्युवाच विभुं नत्वा, स्वामिन् ! यदुदितं त्वया ॥ ६७॥ अलब्धदर्शनश्रेष्ठी, जातोश्वस्तब वेश्मनि । तत्कि नु दर्शनं नाम, दर्शनं सर्वसम्पदाम् ॥ ६८ ॥ सदृष्टान्तं साऽतिचारं, तहत जगतापते ! । परप्रबोधनिरता, जिना एवं जगत्रये ॥ ६९ ॥ अथ त्रिजगतां नाथो, भावं ज्ञात्वा महीभुजः । इदं जगाद वदतां वरः प्रबलकेवलः ॥ ७० ॥ तलपादस्थिरत्वेन, प्रासादो नाऽन्यथा स्थिरः । दर्शनस्यैव संस्थैर्य, ज्ञानचारित्रसंस्थितिः ॥ ७१ ॥
भृगुकच्छे अश्वस्थ प्रतिबोधः
॥१०८॥
For Private and Personal Use Only