________________
Shri Mahavir Jain Aradhana Kendra
-OXXCXCX XX•*****
www.kobatirth.org
द्वारोच्छ्रयस्य यन्मानमष्टधा तं प्रकल्पयेत् । ततो भागं परित्यज्य, शेषं त्रिधा विभागयेत् ॥ ४३ ॥ भागेनैकेन पीठं स्याद्, द्वाभ्यां च प्रतिमा भवेत् । कनिष्ठा प्रतिमा ह्येषा, सर्वदा सुखदा नृणाम् ॥ ४४ ॥ द्वारोच्छ्रयस्य मानं तु विभज्य नवधा ततः । भागमेकं परित्यज्य, शेषं कृत्वा त्रिधा पुनः ॥ ४५ ॥ भागो को भवेत्पीठं द्वाभ्याञ्च प्रतिमा भवेत् । कथिता द्वारमानेन, मध्यमा प्रतिमा स्मृता ॥ ४६ ॥ द्वारदैर्घ्यं त्रिधा भक्त्वा, पीठं भागेन कल्पयेत् । भागाभ्यां प्रतिमा कार्या ज्येष्ठा तु प्रतिमा शुभा ॥ ४७ ॥ मुक्ताशैलैः स्फटिकमणिभिः स्वर्णरूप्यादिभिर्वा, बिम्बं सौम्यप्रकृतिविलसल्लक्ष्मवर्मोपपन्नम् । स्फारज्योतिर्भवभयभिदस्तीर्थनाथस्य भक्त्या, नेत्राऽऽनन्दप्रसवि कृतिनः केऽपि निर्वर्तयन्ति ॥ ४८ ॥ दौर्भाग्यं दीनता दौस्थ्यं, वैरूप्यं व्याधिजं भयम् । एतजिनाऽऽर्चाकर्तॄणां न जायेत विवेकिनाम् ॥ ४९ ॥ श्रुत्वा सागरदत्तस्तु, काञ्चनं बिम्बमर्हतः । विधाय विधिवद्भूरि- स्वव्ययैः प्रत्यतिष्ठिपत् ॥ ५० ॥ नगरस्य बहिर्भागे, प्रोतुङ्गं शिवमन्दिरम् । तेनाऽऽसीत्कारितं पूर्व, दृशां विश्रामपल्लवः ॥ ५१ ॥ अथ सागरदत्तोऽसौ कम्बलप्रावृतः शुचिः । तत्रोत्तरायणेऽगच्छद् दर्भमुद्राङ्किताऽङ्गुलिः ॥ ५२ ॥ तस्मिन् प्राक् सञ्चितस्त्यान घृतकुम्भपरम्पराः । ऋष्टुं शिवाऽर्चकाः सर्पिः, कम्बलाय कृतोद्यमाः ॥ ५३ ॥ पिण्डीभूयाsधरे तेषां घटानामुपदेहिकाः । बभूवुर्बहवो लग्नाः, क्षौद्रे क्षौद्रा हवाऽभितः ।। ५४ ।। तस्थुः क्षितौ नेशुः प्रसस्रुरुपदेहिकाः । घटाऽधस्तात् न्यषीदंश्च, रन्धान् कांश्चन निर्ममुः ॥ ५५ ॥ सञ्चरद्भिचूर्णमाणास्ता उदीक्ष्य कृपापरः । अपनेतुं स्ववस्त्रेण, सागरोऽथ प्रचक्रमे ॥
५६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
भृगुकच्छे
अश्वस्य
प्रतिबोधः