SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो मक गणभृत्समयपृच्छ-द्विभुं विनयवामनः । स्वामिन् ! समवसरणे, प्रवेदे धर्ममत्र कः ? ॥१३॥ खाम्यप्युवाच नो धर्म, प्रत्यपद्यत कश्चन । विनैकं वाजिनं जात्यं, जितशत्रुनरेशितुः ॥ १४॥ सविसयो महीपालः, पप्रच्छाऽथ जगद्गुरुम् । कोऽयमश्वो जगन्नाथ , यो जैन धर्ममादृतः॥१५॥ अथाऽचख्याविति खामी, गजगामी निरामयः। पत्तने पद्मिनीखण्डे, वनखण्डेन मण्डिते ॥ १६ ॥ वणिग्वेणुखरो दानी, महाजनकपुङ्गवः । जिनधर्माभिधानोऽभू-जिनधर्मपरायणः ।। १७ ॥ समस्तपौरमान्योऽस्य, मित्रं सागरदत्तकः । सोऽन्वहं भद्रकत्वेन, जैनचैत्येषु जग्मिवान् ॥ १८ ॥ अपरेयुः सुसाधुभ्य, इत्यश्रीपीत्समास्थितः । योऽर्हदिम्बानि शस्तानि, कारयेदिति शास्वतः ॥ १९ ॥ उपविष्टस्य देवस्यो- लस्य वा प्रतिमा भवेत् । द्विविधाऽपि युवावस्था, पर्यङ्कासनगादिमा ॥ २० ॥ देवस्योर्ध्वस्य बिम्बं स्या-जानुलम्बिभुजद्वयम् । श्रीवत्सोष्णीषसंयुक्तं छत्रादिपरिवारयुक् ॥ २१ ॥ छत्रत्रयं च नासाग्रो-तारि सर्वोत्तमं भवेत् । नासाभालान्तयोर्मध्यं, कपोले वेधकृत्पुनः ॥ २२ ॥ रक्षितव्यः परीवारे, दृपदां वर्णसङ्करः । विषमाऽङ्गुलसवयेष्टा, प्रतिमामानकर्मणि ॥ २३ ॥ अन्योन्यजानुस्कन्धान्तात् तिर्यक्मूत्रनिपातनात् । केशान्ताऽञ्चलयोश्चान्तःसूत्रैक्याच्चतुरस्रता ॥ २४ ॥ नवतालं भवेद्रूपं, तालः स्याद् द्वादशाङ्गुलः । अङ्गुलानि न कम्बायाः, किन्तु रूपस्य तस्य हि ॥ २५ ॥ ऊर्ध्वस्थप्रतिमामान-मष्टोत्तरशतांऽशतः । आसीनप्रतिमामानं, पट्यश्वाशद्विभागतः ॥२६॥ भालनासाऽऽननग्रीवा-हृभाभी गुह्यमूरुके । जानुजङ्घा हि चेत्येका-दशाङ्कस्थानकानि तु ॥२७॥ कोरिटकोयाने समवसरणम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy