________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामिचरितम् ॥१०६॥
षष्ठः सर्गः
षष्ठः सर्गः यत्तीर्थमद्याऽपि कुमारपाल-क्षोणीश्वरः सुन्दरमुद्दधार ।
नाना च कूर्माऽङ्कपदाऽभिपूतं, तत्स्थानकं सिद्धपुरं चकार ।।१।। इतश्च लाटदेशश्री-ललाटतिलकोपमम् । सङ्केतनिलयं श्रीणां, भृगुकच्छाऽऽह्वयं पुरम् ॥२॥ (यत्र च ) प्रातः स्नानमिवाकरोदिनकरो रेवाजले निर्मले, सङ्क्रान्तप्रतिमाच्छलेन विपुलप्रीतिप्रनृत्यत्करः । पद्मोल्लासि तमोविनाशि कलयनक्षत्रमालाक्षया, तेजःप्रापदितीव सोऽयमधिकं विश्वस्य विद्योतकम् ॥ ३॥ ज्योत्स्नासु चिन्तितास्तारा, यत्र स्फाटिकवेश्मसु । पुष्पोपहारतां यान्ति, कृतामिव गृहश्रिया ॥ ४ ॥
नवमो भक जितशत्रुर्नुपस्तत्र, पौरुषेण यथार्थवान् । अखण्डशासनं पाक-शासनः स्वरिवागतः ॥५॥
कोरिटकोबाने अथेशो विहरन्नुा -मुर्वीपतिनिषेवितः । उद्याने समवासापी-नाम्ना कोरिटके कले ॥६॥
समवसरणम् विज्ञातत्रिजगन्नाथ -समागममहोत्सवः । सपौरो वन्दितुं वेगा-दचालीदचलापतिः ॥ ७॥ समागच्छन्तुरङ्गाणां, रेणुभिः खुरसंभवः । चकार गगनं राज-सविता स वितानात् ॥८॥ रेणौ हयखुरोत्क्षिप्ते, घनमण्डलिविभ्रमे । बलाकायितसम्फुल्ल-निर्मलाऽऽतपवारणैः ॥९॥ निस्वाननिस्खनोत्तान- स्तनितैर्जगतीपतिः। चलकुण्डलमाणिक्यः, विद्युत्पुञ्ज इवाऽऽवभौ ॥ १० ॥युग्म म्॥ISM प्राप्य व द्वितीयं स, मुक्त्वा वाजिनमात्मनः । त्रिश्च प्रदक्षिणीकृत्य, प्रभोः सुश्राव देशनाम् ॥ ११ ॥ रोमाञ्चिताऽङ्ग उत्कर्ण-श्चित्रन्यस्त इव स्थितः । सुश्राव देशनां भर्तु-र्जितशत्रुतुरङ्गमः॥१२॥
For Private and Personal Use Only