SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXAM नवमो भवः कतरत्कथ्यतां मित्रो-दिते तु वङ्कचूलिना । सोऽप्यूचे काकमांसस्य, भुक्तिं कुरु व्यथाक्षिते ॥२५३॥ स्मित्वाऽथ स्माऽऽह पल्लीशः, कीदृग् श्राद्ध ! विभाषसे ? । इभः स्यादङ्कुशान्मत्तः, कस्य पूत्कूर्महे पुरः॥२५४|| नियमत्रयमाहात्म्या-दिहाऽभून्मम निर्वृतिः। अमुष्यातिशयादेव!, देवलोको भविष्यति ।। २५५ ॥ अप्यौषधकृते जग्धं, काकमांसमुपासकः । न नित्याऽङ्गकरं भावि, कुतो धर्मक्षितेः सुखम् ? ॥२५६॥ यदि त्वं हितकृन्मेऽस्ति, श्रीमत्सर्वज्ञभाषिताम् । आराधनां विशुद्धात्मन् , मां कारय घृणालय ! ॥२५॥ अथ श्रेष्ठी जिनेन्द्रेणो-पदिष्टां धीरया गिरा । अकारयत्तरामारा-धनां भूधननन्दनम् ॥ २५८ ॥ समुत्पन्नसमाधिः सः, शुभध्यानपरायणः । देवभूयमथ प्राप, ततो निर्वाणमेष्यति ॥ २५९ ।। ये केपि विवेकभृतो, विदधति नियमान गुरूदितान् लक्ष्म्या । कतिचित्तेषां करतल-कमले हंसीयितं सततम् २६० चौरोऽपि वङ्कचूलः, प्रतिकूलः सुनयपद्धतेः प्रथमम् । क्रमशो नियमग्रहणात् , धर्मद्रोरजनि वरमूलम् ॥२६॥ तुच्छा जिनवचनरुच-स्तुच्छाः सम्यक्त्वधारिणो लोके । अतितुच्छा निजनियम-ग्रहणप्रतिपालकाः पुरुषाः२६२ इत्थं श्रुत्वा त्रिभुवनगुरो-र्देशनां केप्यगृह्णन् , दीक्षां केचिद्विनयविनताः साम्यवल्लीं वसन्तः । केचित्कांश्चिनियमनिकरान् प्रापुरत्यन्तशुद्ध्या, नाथस्तस्मादपि सह सुरैर्दीप्यमानैर्विजहे ॥ २६३ ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके नियमफलानुगत - बङ्कचूलकथानकगर्भित उरितरङ्गिणीतीर -समवसरणव्यावर्णनो नाम पञ्चमः सर्गः समाप्तः ।। प्रन्थानम् ॥ २६३ ।। मूलतो ३०१३ ॥ जिनदेशनायां वकचूलकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy